चन्द्रपाण्डुरसंकाशो वनमाली हलायुधः
नारायणवचः श्रुत्वा धर्मकामा वसुन्धरा
धरण्युवाच शपिष्यति कथं तत्र दुर्वासास्तद्वदस्व मे
श्रीवराह उवाच रूपयौवनसम्पन्ना मम भोगसमन्विता
तस्याः पुत्रो महाभागो रूपयौवनदर्पितः
तेनैव क्रीडमानेन कृत्वा गर्भमतथ्यतः
पुत्रकामा त्वियं बाला मुने तत्प्रब्रवीहि मे
उवाच तर्हि ते गर्भान्मुसलं कुलनाशनम्
श्रुत्वा दुर्वाससः शापं ते च सर्वे कुमारकाः 149.
ततस्तानागतान्दृष्ट्वा कुमारान् पृष्टवानहम्
तच्च तेषां वचः श्रुत्वा प्रोक्तवानस्मि तच्छृणु
एवं ते कथितं भूमे वृष्ण्यादेः शापकारणम्
द्वारकायां महाभागे वैष्णवानां सुखावहे
समुद्रतीरमुत्सृज्य मम कर्मसुखावहम्
मोदते नाकपृष्ठे तु अप्सरोगणसंकुले
देवलोकं समुत्सृज्य मम लोके महीयते
सुफलैः शोभनैः कुम्भाकृतिभिर्बहुभिः फलैः
फलं न लभते कश्चिन्मुक्त्वा भागवतं नरम्
ते लभन्ते परां सिद्धिं मम कर्मणि संस्थिताः 149.
मनुजा यं न पश्यन्ति रागलोभसमन्विताः
मोदते सप्तद्वीपेषु गुह्यानि च स गच्छति
सर्वसंगं परित्यज्य मम लोकं स गच्छति
प्रभासे यत्र शृण्वन्ति सागरे न म (ग) रं प्रति
अथात्र प्रक्षिपेत्पिण्डान्प्रसन्ने सलिले नरः
असम्प्राप्ते च गृह्णन्ति एवमेतन्न संशयः
धर्मात्मनां च गृह्णन्ति पिण्डमेव न संशयः
अगाधस्याप्यपारस्य क्रोशविस्तार एव च
मोदते शक्रलोके स एवमेतन्न संशयः
शक्रलोकं परित्यज्य मम लोकं स गच्छति 149.
न पश्येत्पापकर्मा वै शुभकर्मैव पश्यति