श्रीवराह उवाच द्वापरे युगमासाद्य यत्र स्थास्यामि सुन्दरि
ततोऽमरैश्च ब्रह्माद्यैर्बहुभिर्मन्त्रवादिभिः
ततो मां नारदो देवि असितो देवलस्तथा
नाम कुर्वन्ति मे तत्र मणिपूरगिरौ ततः
एतत्ते कथितं भद्रे निरुक्तिकरणं मया
एतत्स्तुतगिरेर्देवि माहात्म्यं कथितं मया 148.
एतानि भूमे गुह्यानि तत्र भूतगिरौ मम
एतत्ते कथितं भद्रे सर्वधर्मव्यपाश्रयम्
इति श्रीवराहपुराणे भगवच्छास्त्रे स्तुतस्वामिमाहात्म्यं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः
अथ द्वारकामाहात्म्यम् श्रीस्तुतस्वामिमाहात्म्यं श्रुत्वा धर्मपरायणा
धरण्युवाच मम चित्तस्य परमा जाता शान्तिरनुत्तमा
नाराचधारावरणासिधारी सुररिपुवधकारी धरणीधरः
एवं हि गुणमाहात्म्यं स्तुतस्वामिनि मच्छ्रुतम्
श्रीवराह उवाच कथयिष्यामि चान्यत्ते गुह्यं पापभयापहम्
द्वापरं युगमासाद्य यादवानां कुलोद्वहः
द्वारकेति च विख्याता पुरी तत्र स्थिताऽभवत्
पंचयोजनविस्तारा दशयोजनमायता
भारावतरणं कृत्वा देवानां सुमहत्प्रियम्
भविष्यति वरारोहे ईश्वरः सदृशो मम 149.
तस्य शापाभिसन्तापाद्द्वारकावासिनो धरे
चन्द्रपाण्डुरसंकाशो वनमाली हलायुधः
नारायणवचः श्रुत्वा धर्मकामा वसुन्धरा
धरण्युवाच शपिष्यति कथं तत्र दुर्वासास्तद्वदस्व मे
श्रीवराह उवाच रूपयौवनसम्पन्ना मम भोगसमन्विता
तस्याः पुत्रो महाभागो रूपयौवनदर्पितः
तेनैव क्रीडमानेन कृत्वा गर्भमतथ्यतः
पुत्रकामा त्वियं बाला मुने तत्प्रब्रवीहि मे
उवाच तर्हि ते गर्भान्मुसलं कुलनाशनम्
श्रुत्वा दुर्वाससः शापं ते च सर्वे कुमारकाः 149.
ततस्तानागतान्दृष्ट्वा कुमारान् पृष्टवानहम्