तस्याराधयतो देवं हरिं नारायणं प्रभुम् । आजगाम महायोगी मार्कण्डेयो महामुनिः ।। १३.
तं दृष्ट्वाऽभ्यागतं दूरादर्घपाद्येन सो मुनिः । अर्चयामास तं भक्त्या मुदा परमया युतः ।। १३.
कौश्यां वृष्यां तदासीनं पप्रच्छेदं मुनिस्तदा । शाधिं मां मुनिशार्दूल किं करोमि महाव्रत ।। १३.
एवमुक्तः स विप्रेन्द्रो मार्कण्डेयो महातपाः । उवाच श्लक्ष्णया वाचा मुनिं गौरमुखं तदा ।। १३.
मार्कण्डेय उवाच । एतदेव महत्कृत्यं यत्सतां संगमो भवेत् । यत्तु सान्देहिकं कार्यं तत्पृच्छस्व महामुने ।। १३.
गौरमुख उवाच । एते हि पितरो नाम प्रोच्यन्ते वेदवादिभिः । सर्ववर्णषु सामान्या उताहोस्वित् पृथक् पृथक् ।। १३.
मार्कण्डेयः । सर्वेषामेव देवानामाद्यो नारायणो गुरुः । तस्माद् ब्रह्मा समुत्पन्नः सोऽपि सप्तासृजन्मुनीन् ।। १३.
मां यजस्वेति तेनोक्तास्तदा ते परमेष्ठिना । आत्मनात्मानमेवाग्रे अयजन्त इति श्रुतिः ।। १३.
तेषां वै ब्रह्मजातानां महावैकारिकर्मणाम् । अशपद् व्यभिचारो हि महानेष कृतो यतः । प्रभ्रष्टज्ञानिनः सर्वे भविष्यथ न संशयः ।। १३.
एवं शप्तास्ततस्ते वै ब्रह्मणात्मसमुद्भवाः । सद्यो वंशकरान् पुत्रानुत्पाद्य त्रिदिवं ययुः ।। १३.
ततस्तेषु प्रयातेषु त्रिदिवं ब्रह्मवादिषु । तत्पुत्राः श्राद्धदानेन तर्पयामासुरञ्जसा ।। १३.
ते च वैमानिकाः सर्वे ब्रह्मणः सप्त मानसाः । तत् पिण्डदानं मन्त्रोक्तं प्रपश्यन्तो व्यवस्थिताः ।। १३.
गौरमुख उवाच । ये च ते पितरो ब्रह्मन् यं च कालं समासते । किं यतो वै पितृगणास्तस्मिंल्लोके व्यवस्थिताः ।। १३.
मार्कण्डेय उवाच । प्रवर्त्तन्ते वराः केचिद् देवानां सोमवर्द्धनाः । ते मरीच्यादयः सप्त स्वर्गे ते पितरः स्मृताः ।। १३.
चत्वारो मूर्त्तिमन्तो वै त्रयस्त्वन्ये ह्यमूर्त्तयः । तेषां लोकनिसर्गं च कीर्त्तयिष्यामि तच्छृणु ।। १३.
प्रभावं च महर्धि च विस्तरेण निबोध मे । धर्ममूर्तिधरास्तेषां त्रयोऽन्ये परमा गणाः । तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु ।। १३.
लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः । अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ।। १३.
विराजस्य प्रजाश्रेष्ठा वैराजा इति ते स्मृताः १३.
एते वै लोकविभ्रष्टा लोकान् प्राप्य सनातनान् । पुनर्युगशतान्तेषु जायन्ते ब्रह्मवादिनः ।। १३.
ते प्राप्य तां स्मृतिं भूयः साध्य योगमनुत्तमम् । चिन्त्य योगगतिं शुद्धां पुनरावृत्तिदुर्लभाम् ।। १३.
एते स्म पितरः श्राद्धे योगिनां योगवर्द्धनाः । आप्यायितास्तु ते पूर्वं योगं योगबले रतौ ।। १३.
तस्माच्छ्राद्धानि देयानि योगिनां योगिसत्तम । एष वै प्रथमः सर्गः सोमपानामनुत्तमः ।। १३.
एते त एकतनवो वर्तन्ते द्बिजसत्तमाः । भूर्लोकवासिनां याज्याः स्वर्गलोकनिवासिनः १३.
कल्पवासिकसंज्ञानां तेषामपि जने गताः । सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः । तेषां सत्यगता मुक्ता इत्येषा पितृसंततिः ।। १३.
अग्निष्वात्तेति मारीच्या वैराजा बर्हिसंज्ञिताः । सुकालेयापि पितरो वसिष्ठस्य प्रजापतेः । तेऽपि याज्यास्त्रिभिर्वर्णैर्न शूद्रेण पृथक्कृतम् ।। १३.
वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्वान् पितृन् यजेत् । न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ।। १३.
मुक्तश्चेतनको ब्रह्मन् ननु विप्रेषु दृश्यते । विशेषशास्त्रदृष्ट्या तु पुराणानां च दर्शनात् ।। १३.
एवं ऋषिस्तुतैः शास्त्रं ज्ञात्वा याज्यकसंभवान् । स्वयं सृष्ट्यां स्मृतिर्लब्धा पुत्राणां ब्रह्मणा ततः । परं निर्वाणमापन्नास्तेऽपि ज्ञानेन एव च ।। १३.
वस्वादीनां कश्यपाद्या वर्णानां वसवादयः । अविशेषेण विज्ञेया गन्धर्वाद्या अपि ध्रुवम् ।। १३.
एष ते पैतृकः सर्ग उद्देशेन महामुने । कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ।। १३.