आचार्याणां गुणान्भुक्त्वा मम कर्मपथे स्थिताः
तस्मिन्क्षेत्रे महाभागे अस्ति गुह्यं परं मम
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः
अथात्र मुंचते प्राणान्कृतकृत्यो भवेन्नरः
भृगुकुण्डेति विख्यातमत्र गुह्यं परं मम
तत्र स्नानं तु कुर्वीत मम मार्गानुसारकः 148.
ध्रुवो यत्र तु तिष्ठेत मेरुशृंगे शिलोच्चये
अथात्र मुंचते प्राणान् मम कर्मपथे स्थितः
मणिकुण्डेति विख्यातं तत्र गुह्यं परं मम
अगाधं तं हृदं भद्रे देवानामपि दुर्लभम्
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः
अथात्र मुंचते प्राणान्मम कर्मपथे स्थितः
सुगुह्यं पूर्वपार्श्वेन मम क्षेत्रस्य सुन्दरि
तत्र स्नानं तु कुर्वीत मम लोकं स गच्छति
पंचक्रोशाददूराद्वै मम क्षेत्रस्य पश्चिमे
सुवर्णाभं मारकतमगाधं निर्मितं मया 148.
धुन्वानो दुष्करं कर्म पंचभूतात्मनिष्ठितम्
गत्वेन्द्रलोकं सुश्रोणि देवैः सह स मोदते
इन्द्रलोकं परित्यज्य मम लोकं प्रपद्यते
वर्त्तते च विशालाक्षि मणिपूरे गिरौ मम
धूते पापे च सुश्रोणि धारा च पतति क्षितौ
धूतपापं न प्रविशेत्प्रविशत्यमले नरे
यत्र तिष्ठाम्यहं देवि पश्चिमां दिशमाश्रितः
मम चैव प्रभावेण सर्वकालफलोदयम्
भक्तं भागवतं शुद्धं मम कर्मव्यवस्थितम्
तत्र गत्वा वरारोहे उदिते च दिवाकरे 148.
एकचित्तेन गन्तव्यं धृतिं कृत्वा सुपुष्कलाम्
पंचरात्रेण लभते तस्मिन्भूतगिरौ मम
पुनर्नारायणं तत्र प्रोवाच विनयान्विता
एतन्नामनिरुक्तिं त्वं वक्तुमर्हसि साम्प्रतम्