मम मार्गानुसारेण परं गुह्यं मम प्रिये
ते तु मात्सर्यर्दोषेण नष्टाचाराः पतन्त्यधः
यस्तु मात्सर्यसंयुक्तो न स पश्यति मां क्वचित्
तपसा ज्ञानयुक्ता वा नित्यं कर्मसु चोद्यताः
न ते पश्यन्ति मां भूमे मायया परिदूषिताः मम शास्त्रपरेणेह यदीच्छेत्परमां गतिम्
एतच्छास्त्रं महाभागे प्रयुक्तं विधिना मया 148.
तत्राश्चर्यं महाभागे शृणु भूतगिरौ मम
ब्रुवन्ति केचित्कांस्येति आयसीत्यपरेऽब्रुवन्
ऊर्द्ध्वं वा यदि वाऽधो वा ये कुर्वन्ति ममार्चनम्
ये तु पश्यन्ति मां भूमे मणिपूरगिरौ स्थितम्
आचार्याणां गुणान्भुक्त्वा मम कर्मपथे स्थिताः
तस्मिन्क्षेत्रे महाभागे अस्ति गुह्यं परं मम
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः
अथात्र मुंचते प्राणान्कृतकृत्यो भवेन्नरः
भृगुकुण्डेति विख्यातमत्र गुह्यं परं मम
तत्र स्नानं तु कुर्वीत मम मार्गानुसारकः 148.
ध्रुवो यत्र तु तिष्ठेत मेरुशृंगे शिलोच्चये
अथात्र मुंचते प्राणान् मम कर्मपथे स्थितः
मणिकुण्डेति विख्यातं तत्र गुह्यं परं मम
अगाधं तं हृदं भद्रे देवानामपि दुर्लभम्
तत्र स्नानं प्रकुर्वीत पंचकालोषितो नरः
अथात्र मुंचते प्राणान्मम कर्मपथे स्थितः
सुगुह्यं पूर्वपार्श्वेन मम क्षेत्रस्य सुन्दरि
तत्र स्नानं तु कुर्वीत मम लोकं स गच्छति
पंचक्रोशाददूराद्वै मम क्षेत्रस्य पश्चिमे
सुवर्णाभं मारकतमगाधं निर्मितं मया 148.
धुन्वानो दुष्करं कर्म पंचभूतात्मनिष्ठितम्
गत्वेन्द्रलोकं सुश्रोणि देवैः सह स मोदते
इन्द्रलोकं परित्यज्य मम लोकं प्रपद्यते
वर्त्तते च विशालाक्षि मणिपूरे गिरौ मम