श्रीवराह उवाच मात्सर्यं चैव मे नास्ति तेनाहं परमः प्रभुः
एतच्छास्त्रं महाभागे प्रयुक्तं लीलया मया
धरण्युवाच तथा तथा देव वराऽप्रमेयं हृद्यं मनो भावयसे जनार्दन
ततो महीवचः श्रुत्वा धर्मश्रेष्ठी महामनाः
श्रीवराह उवाच कथयिष्याम्यहं ह्येवं गुह्यं लोकसुखावहम्
स्तुतस्वामीति विख्यातं गुह्यं क्षेत्रं परं मम
पुत्रोऽहं वसुदेवस्य देवक्या गर्भसम्भवः 148.
पञ्च तस्य सुशिष्याश्च भविष्यन्ति विचक्षणाः
ते मां संस्थापयिष्पन्ति धर्ममूर्त्तिं महीं गतम्
भृगुश्चैव महाभागे मम मागार्नुसारिणः
स्वयं ज्ञानप्रभावेण भासयिष्यन्ति मां सदा
गच्छता बहुकालेन मम कर्मपरायणः
वरं तेषां प्रदास्यामि यो यस्य हृदि संस्थितः
आत्मशास्त्रं प्रतिष्ठेत यत्र धर्मः सुनिष्ठितः
तव देव प्रसादेन इहलोकः प्रवर्तताम्
भविष्यति न संदेहो यतो यूयं मम प्रियाः
तदेते प्रवदिष्यन्ति सर्वभागवतप्रियम् 148.
एवं सर्वेषु शास्त्रेषु वाराहं घृतसम्मितम्
एवं समं मया चैव ह्यात्मना परिभाषितम्
महाज्ञानमिदं सूक्ष्मं भूमे भक्तेषु दृश्यते
किञ्चिदन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
केचित्तरन्ति ज्ञानेन केचित्कर्मणि निष्ठिताः
केचिद्योगबलं भुक्ता पश्यन्ति मम संस्थितम्
सर्वधर्मकराः केचित्सर्वाशाः सर्वविक्रयाः
एवमेतन्महाशास्त्रं देवि संसारमोक्षणम्
ते तथा च प्रवक्ष्यन्ति यच्च यस्याभिरोचते
तद्युगस्य प्रभावेण भूमे कुर्वन्ति मानवाः 148.
मत्प्रसादेन ते सर्वे सिद्धिं यास्यन्ति मत्पराम्
मच्छास्त्रे च भवेद्दोषस्तेषामत्र पुनर्भवः
तेषां नायं परो लोको मात्सर्योपहतात्मनाम्