तारितानि कुलान्येभिः सप्त सप्त च सप्त च
देयं पुत्राय शिष्याय यश्च जानाति सेवितुम्
श्लोकं वा यदि वा पादं यदीच्छेत्परमां गतिम्
तिष्ठामि परया प्रीत्या दिशं पूर्वामुपाश्रितः
एवं रहस्यं गुह्यं च सर्वकर्मसुखावहम्
मम क्षेत्रं महाभागे यत्त्वया परिपृच्छितम्
इति श्रीवराहपुराणे भगवच्छास्त्रे गोनिष्क्रमण माहात्म्यं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः
अथ स्तुतस्वामिमाहात्म्यम् गोनिष्क्रमणमाहात्म्यं श्रुत्वा गुह्यमनुत्तमम्
धरण्युवाच यच्छ्रुत्वाऽहं जगन्नाथ जातास्मि परिनिर्वृता
एवमेव परं गुह्यं ब्रूहि नारायण प्रभो
श्रीवराह उवाच मात्सर्यं चैव मे नास्ति तेनाहं परमः प्रभुः
एतच्छास्त्रं महाभागे प्रयुक्तं लीलया मया
धरण्युवाच तथा तथा देव वराऽप्रमेयं हृद्यं मनो भावयसे जनार्दन
ततो महीवचः श्रुत्वा धर्मश्रेष्ठी महामनाः
श्रीवराह उवाच कथयिष्याम्यहं ह्येवं गुह्यं लोकसुखावहम्
स्तुतस्वामीति विख्यातं गुह्यं क्षेत्रं परं मम
पुत्रोऽहं वसुदेवस्य देवक्या गर्भसम्भवः 148.
पञ्च तस्य सुशिष्याश्च भविष्यन्ति विचक्षणाः
ते मां संस्थापयिष्पन्ति धर्ममूर्त्तिं महीं गतम्
भृगुश्चैव महाभागे मम मागार्नुसारिणः
स्वयं ज्ञानप्रभावेण भासयिष्यन्ति मां सदा
गच्छता बहुकालेन मम कर्मपरायणः
वरं तेषां प्रदास्यामि यो यस्य हृदि संस्थितः
आत्मशास्त्रं प्रतिष्ठेत यत्र धर्मः सुनिष्ठितः
तव देव प्रसादेन इहलोकः प्रवर्तताम्
भविष्यति न संदेहो यतो यूयं मम प्रियाः
तदेते प्रवदिष्यन्ति सर्वभागवतप्रियम् 148.
एवं सर्वेषु शास्त्रेषु वाराहं घृतसम्मितम्
एवं समं मया चैव ह्यात्मना परिभाषितम्
महाज्ञानमिदं सूक्ष्मं भूमे भक्तेषु दृश्यते