गोलोकं च समासाद्य मोदते नात्र संशयः
शंखचक्रगदायुक्तो मम लोके महीयते
तत्र स्नानं प्रकुर्वीत पंचरात्रोषितो नरः
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम्
अस्ति पंचपदं नाम तस्मिन्क्षेत्रे परं मम
मत्पूर्वां दिशमाश्रित्य तत्र ब्रह्मपदद्वयम्
ऊर्द्ध्वं नालपरीणाहं तत्र विष्णुपदं मम
यांति शुद्धांस्तु लोकांस्ते ये च भागवतप्रियाः
विमुक्तः सर्वसंसारान्मम लोकं च गच्छति 147.
यत्र धारा पतत्येका पश्चिमां दिशमाश्रिता
ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते
यज्ञानां वाजपेयानां फलं प्राप्नोति मानवः
वाजपेयफलं भुक्त्वा मम लोकं प्रपद्यते
पंचक्रोशं ततो गत्वा वायव्यां दिशि संस्थितः
बहुयज्ञस्य कोटीनां फलं प्राप्नोति निष्कलम्
यज्ञकोटिफलं भुक्त्वा मम कोटिं प्रपद्यते
पूर्वोत्तरेण पार्श्वेन पंचक्रोशं न संशयः
पंचक्रोशश्च विस्तारः पर्वतः परिमण्डलः
उपवासं त्रिरात्रं तु कृत्वा कर्म सुदुष्करम् 147.
तावद्वर्षसहस्राणि ब्रह्मलोके महीयते
ब्रह्मलोकं समुत्सृज्य मम लोके महीयते
गवां वै श्रूयते शब्दो मम कर्मसुखावहः
श्रूयते सुमहाञ्छब्दः स्वयमेतन्न संशयः
करोति शुभकर्माणि शीघ्रं मुच्येत किल्बिषात्
शापदाहो विनिर्मुक्तः सर्वैः सह मरुद्गणैः
कथितं देवि कार्त्स्न्येन तवानुग्रहकाम्यया
मम मार्गानुसाराणां मम च प्रीतिवर्द्धनः
लाभानां परमो लाभो धर्माणां धर्म उत्तमः
तेजः श्रियं च लक्ष्मीं च सर्वकामान्यशस्विनि 147.
तावद्वर्षसहस्राणि मम लोके महीयते