अन्यच्च यत्परं गुह्यं क्षेत्रं परमपावनम्
श्रीवराह उवाच गुह्यमस्त्यपरं चैव हिमशृङ्ग शिलोच्चये
गोनिष्क्रमणकं नाम गावो यत्र प्रतारिताः
सप्ततिर्यत्र कल्पानि और्वो यत्र प्रजापतिः
तस्यैवं वर्त्तमानस्य याति काले महत्तरे
न वरं प्रार्थयत्येष लाभालाभसमन्वितः
अथ दीर्घस्य कालस्य कश्चिद्ब्रह्मयतिस्तदा
ईश्वरोऽपि महाभागे तत्पार्श्वं समुपागतः
तत्र त्वौर्वो महाभागे तप्यते समदर्शनः 147.
तन्निर्गतं ततो ज्ञात्वा और्वं सर्वे तपस्विनः
फलपुष्पसमाकीर्णा लक्ष्मीश्चैवोपजायते
तच्च वै भस्मसाद्भूतं महारुद्रस्य तेजसा
ईश्वरोऽपि ततः प्राप्तः शीघ्रमेव हिमालयम्
आश्रमं समनुप्राप्त और्वोऽपि मुनिपुंगवः
दृष्ट्वा स्वमाश्रमं दग्धं बहुपुष्पफलोदकम्
उवाच क्रोधरक्ताक्षो वचनं निर्दहन्निव
सोऽपि दुःखेन सन्तप्तः सर्वलोकान्भ्रमिष्यति
महाभयात्तु लोकानां न कश्चित्पर्यवारयत्
महादाहेन सन्तप्तः शम्भुर्देवीमुवाच ह 147.
दह्यते स्म जगत्सर्वं स तु किञ्चिन्न चेच्छति
एवमुक्ते मया क्रोधादीक्षितस्तस्य चाश्रमः
एतद्दुःखेन सन्तप्तो मन्युना च परिप्लुतः
ततोऽभ्रमद्विरूपाक्षः शं न प्राप्नोति कर्हिचित्
तेन दाहेन सन्तप्तो न शक्नोमि विचेष्टितुम्
गच्छावस्तस्य वाक्येन सुखं यत्र भविष्यति
विज्ञापयामो रुद्रस्य शापोऽयं विनिवर्त्तताम्
और्वोऽप्युवाच नोक्तं मे अनृतं तु कदाचन
रुद्रशापो निवृत्तः स्यात्तेनैव किल नान्यथा
सप्तसप्ततिः कल्याणि सौरभेया महौजसः 147.
तच्च गोनिष्क्रमं नाम तीर्थं परमपावनम्