समंगमिति विख्यातमेतत्स्थानं भविष्यति
तस्य योगफलं सम्यग्भविष्यति न संशयः
देवदत्तोऽपि स मुनिः सम्प्राप्य ज्ञानमुत्तमम् 146.
प्रम्लोचापि मुनेर्गर्भं सम्प्राप्याश्रममन्तिकात्
पुनर्जातमिवात्मानं मन्यमाना शुचिस्मिता
ततः सुनिश्चयं कृत्वा तपसे धृतमानसा
मासे सा प्रथमे बाला फलाहारपरायणा
तृतीये पंचम दिने चतुर्थे सप्तमांतरे
मासेन सप्तमे चैव शीर्णपर्णाशनाष्टमे
सैवं वर्षशतं स्थित्वा हरावेकाग्रमानसा
द्वन्द्वानि नाविदच्चापि आत्मभूतान्तरं विना
तत्तेजसा वृतं सर्वं तदा दृष्ट्वा वसुन्धरे 146.
सन्निरुद्धेन्द्रियग्रामा नाचक्षत बहिःस्थितम्
स्थितोऽहं वसुधे देवि अक्ष्णोः प्रत्यक्षतां गतः
हृषीकेश इति ख्यातो नाम्ना तत्रैव संस्थितः
बहिः स्थितं च मां दृष्ट्वा प्रणनाम कृताञ्जलिः
रोमांचिततनुश्चासीत्कदम्बमुकुलाकृतिः
अयि बाले विशालाक्षि तुष्टोऽहं तपसस्तव
अदेयमपि ते दद्मि यदन्येषां सुदुर्ल्लभम्
स्तुत्वा तं देवदेवेशं प्रबद्धकरसंपुटा
दुर्लभं ते वरं दद्मि तपसाहं प्रतोषितः 146.
यदि प्रसन्नो देवेश तदा मां कुरु पावनीम्
तामहं देवि सुभगे प्रावोचं पुनरेव हि
तव नाम्नां च विख्यातमेतत्क्षेत्रं भविष्यति
विलोक्य मां भवेत्पूतो मम वाक्यान्न संशयः
यास्यन्ति विलयं क्षिप्रमेवमेतन्न संशयः
सापि कालेन सञ्जाता तीर्थभूता तथाऽभवत्
रुरुक्षेत्रस्य प्रभवमेतद्गुह्यं परं मम
इति श्रीवराहपुराणे भगवच्छास्त्रे रुरुक्षेत्रऋषीकेशयोर्माहात्म्यं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः
अथ गोनिष्क्रमणमाहात्म्यम् अत्याश्चर्यं श्रुतं ह्येतद्रुरुक्षेत्रसमुद्भवम्