उपसर्गो महानत्र तपसो भ्रंशकारकः
तपस्तीव्रं समास्थाय शोषयिष्ये कलेवरम्
गण्डकीसंगमे स्नात्वा सन्तर्प्य पितृदेवताः 146.
पश्यन्भृग्वाश्रमं रम्यमुत्तरं गतवान् शनैः
दृष्ट्वा तीरेषु विश्रांतस्तपोभूमिमचिंतयत्
अतप्यत तपो घोरं शिवदर्शनलालसः
लिंगरूपधरः साक्षादुपर्यपि तथा ह्यधः
उवाच च प्रसन्नात्मा मुने पश्य च मां शिवम्
पूर्वमन्तरभावेन दृष्टवानसि यन्मम
आवामेकेन भावेन पश्यंस्त्वं सिद्धिमाप्स्यसि
समंगमिति विख्यातमेतत्स्थानं भविष्यति
तस्य योगफलं सम्यग्भविष्यति न संशयः
देवदत्तोऽपि स मुनिः सम्प्राप्य ज्ञानमुत्तमम् 146.
प्रम्लोचापि मुनेर्गर्भं सम्प्राप्याश्रममन्तिकात्
पुनर्जातमिवात्मानं मन्यमाना शुचिस्मिता
ततः सुनिश्चयं कृत्वा तपसे धृतमानसा
मासे सा प्रथमे बाला फलाहारपरायणा
तृतीये पंचम दिने चतुर्थे सप्तमांतरे
मासेन सप्तमे चैव शीर्णपर्णाशनाष्टमे
सैवं वर्षशतं स्थित्वा हरावेकाग्रमानसा
द्वन्द्वानि नाविदच्चापि आत्मभूतान्तरं विना
तत्तेजसा वृतं सर्वं तदा दृष्ट्वा वसुन्धरे 146.
सन्निरुद्धेन्द्रियग्रामा नाचक्षत बहिःस्थितम्
स्थितोऽहं वसुधे देवि अक्ष्णोः प्रत्यक्षतां गतः
हृषीकेश इति ख्यातो नाम्ना तत्रैव संस्थितः
बहिः स्थितं च मां दृष्ट्वा प्रणनाम कृताञ्जलिः
रोमांचिततनुश्चासीत्कदम्बमुकुलाकृतिः
अयि बाले विशालाक्षि तुष्टोऽहं तपसस्तव
अदेयमपि ते दद्मि यदन्येषां सुदुर्ल्लभम्
स्तुत्वा तं देवदेवेशं प्रबद्धकरसंपुटा