वराहपुराणम्
मादृशान्किं मृगयसे बाहुपाशेन वा मृगान्
सर्वथाऽस्मांस्तवाधीनान् यद्यद्वा कारयिष्यति
अथ तां हसमानां च गृहीत्वा दक्षिणे करे 146.
' रममाणस्तया सार्द्धं भुञ्जन्भोगान् मनोरमान्
बहूनहर्गणानेवं रममाणो यदृच्छया
निर्वेदं प्राप्तवान्सद्यस्तदोवाच भृशातुरः
जानन्नपि तपोभ्रंशं प्राप्तो दैवबलात्कृतः
इति प्रवादो मूर्खाणां विचारान्महदन्तरम्
पुमांस्त्रीदर्शनादेव द्रवते यद्विमोहितः
इत्युक्त्वाऽसौ निवृत्तात्मा विससर्ज सुराङ्गनाम्
उपसर्गो महानत्र तपसो भ्रंशकारकः
तपस्तीव्रं समास्थाय शोषयिष्ये कलेवरम्
गण्डकीसंगमे स्नात्वा सन्तर्प्य पितृदेवताः 146.
पश्यन्भृग्वाश्रमं रम्यमुत्तरं गतवान् शनैः
दृष्ट्वा तीरेषु विश्रांतस्तपोभूमिमचिंतयत्
अतप्यत तपो घोरं शिवदर्शनलालसः
लिंगरूपधरः साक्षादुपर्यपि तथा ह्यधः
उवाच च प्रसन्नात्मा मुने पश्य च मां शिवम्
पूर्वमन्तरभावेन दृष्टवानसि यन्मम
आवामेकेन भावेन पश्यंस्त्वं सिद्धिमाप्स्यसि
समंगमिति विख्यातमेतत्स्थानं भविष्यति
तस्य योगफलं सम्यग्भविष्यति न संशयः
देवदत्तोऽपि स मुनिः सम्प्राप्य ज्ञानमुत्तमम् 146.
प्रम्लोचापि मुनेर्गर्भं सम्प्राप्याश्रममन्तिकात्
पुनर्जातमिवात्मानं मन्यमाना शुचिस्मिता
ततः सुनिश्चयं कृत्वा तपसे धृतमानसा
मासे सा प्रथमे बाला फलाहारपरायणा
तृतीये पंचम दिने चतुर्थे सप्तमांतरे
मासेन सप्तमे चैव शीर्णपर्णाशनाष्टमे
सैवं वर्षशतं स्थित्वा हरावेकाग्रमानसा