वर्षाणामयुतं साग्रं तत इन्द्रो व्यचिन्तयत्
उवाच मधुरं वाक्यं क्षुब्धेन्द्रियमनाः प्रभुः
तस्य मे चिन्तयानस्य यूयमेव परा गतिः 146.
तदिन्द्रस्य वचः श्रुत्वा ते काममलयानिलाः
जितेन्द्रियस्यापि मनः कस्य संक्षोभयामहे
आज्ञाप्रसादं ते लब्ध्वा वद शीघ्रं सुखी भव
तदैव मे गता चिन्ता भवतां दर्शनं यदा
हिमशैले महारम्ये हृषीकेशाश्रितो मुनिः
जिघृक्षुर्मे पदं नूनं तत्तपो विनिवर्त्यताम्
प्रस्थानाय मतिं चक्रुः कामदेवपुरःसराः
ततः सुरपतिः शक्रः प्रम्लोचां नाम नामतः
गच्छ स्वस्तिमती देवि विजयाय मुनेर्भुवि
ललितैः स्वैर्विलासैस्तं मोहयित्वा वशं कुरु 146.
तथा कुरुष्व भद्रं ते हृषीकेशसमीपतः
समीपोपवने रम्ये नानाद्रुमलताकुले
रसालमञ्जरीव्याप्तरसामोदालिसंकुले
गन्धर्वगीतसंमिश्रे मलयानिलशीतले
मुनिप्रभावसन्त्यक्तक्रौर्यस्थलजलाशये
प्रविश्य सा वरारोहा गीतं सुमधुरं जगौ
गान्धर्वं प्रारभंस्ते तु गन्धर्वाः सुरसम्मताः
विचकर्ष धनुः पौष्पं सायकान् समयूयुजत्
श्रुत्वा तन्मधुरं गीतं पञ्चमालापसुन्दरम्
चकर्ष च धनुः कामः पुनःपुनरतन्द्रितः 146.
विचचाराश्रमपदं पश्यन्सन्तुष्टमानसः
दृष्ट्वैव तां तु चार्वंगीं विद्धः कामेन पत्रिणा
सापि दृष्ट्वा देवदत्तं सज्जन्ती हरिणेक्षणा
करेण कन्दुकं घ्नन्ती चञ्चलाक्षी सुपेशला
मनो हरन्ती तस्यर्षेः ललितैर्विभ्रमोद्भवैः
वासः सूक्ष्मंगलन्नीवि कांचीदामगुणान्वितम्
सम्मोहितः स तु मुनिर्गत्वान्तिकमथाब्रवीत्