यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति
कथितं ते महादेवि किमन्यच्छ्रोतुमिच्छसि
इति श्रीवराहपुराणे भगवच्छास्त्रे शालग्रामक्षेत्रमाहात्म्यं नाम पंचचत्वारिंशदधिकशततमोऽध्यायः
अथ रुरुक्षेत्रस्थहृषीकेशमाहात्म्यम् शालग्रामस्य माहात्म्यं श्रुत्वा गुह्यं महौजसम्
धरण्युवाच एतच्छ्रुत्वा महाभाग जातास्मि विगतज्वरा
रुरुषण्डमिति प्रोक्तं यत्त्वया परमार्च्चितम्
यन्नाम्ना परमं क्षेत्रं हृषीकेश त्वयाश्रितम्
श्रीवराह उवाच भृगुवंशे समुत्पन्नो वेदवेदाङ्गपारगः
यज्ञविद्यासु कुशलो व्रतनिष्ठोऽतिथिप्रियः
शान्तैर्मृगगणैः कीर्णं कन्दमूलफलान्वितम्
वर्षाणामयुतं साग्रं तत इन्द्रो व्यचिन्तयत्
उवाच मधुरं वाक्यं क्षुब्धेन्द्रियमनाः प्रभुः
तस्य मे चिन्तयानस्य यूयमेव परा गतिः 146.
तदिन्द्रस्य वचः श्रुत्वा ते काममलयानिलाः
जितेन्द्रियस्यापि मनः कस्य संक्षोभयामहे
आज्ञाप्रसादं ते लब्ध्वा वद शीघ्रं सुखी भव
तदैव मे गता चिन्ता भवतां दर्शनं यदा
हिमशैले महारम्ये हृषीकेशाश्रितो मुनिः
जिघृक्षुर्मे पदं नूनं तत्तपो विनिवर्त्यताम्
प्रस्थानाय मतिं चक्रुः कामदेवपुरःसराः
ततः सुरपतिः शक्रः प्रम्लोचां नाम नामतः
गच्छ स्वस्तिमती देवि विजयाय मुनेर्भुवि
ललितैः स्वैर्विलासैस्तं मोहयित्वा वशं कुरु 146.
तथा कुरुष्व भद्रं ते हृषीकेशसमीपतः
समीपोपवने रम्ये नानाद्रुमलताकुले
रसालमञ्जरीव्याप्तरसामोदालिसंकुले
गन्धर्वगीतसंमिश्रे मलयानिलशीतले
मुनिप्रभावसन्त्यक्तक्रौर्यस्थलजलाशये
प्रविश्य सा वरारोहा गीतं सुमधुरं जगौ
गान्धर्वं प्रारभंस्ते तु गन्धर्वाः सुरसम्मताः