यज्ञस्तपोऽथवा दानं श्राद्धमिष्टस्य पूजनम्
भूमे तस्यापराधांश्च सर्वानेव क्षमाम्यहम्
तथैवायं देवनद्यो संगमः समुदाहृतः
अहमस्मिन्महाक्षेत्रे धरे पूर्वमुखः स्थितः
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
शिवो मे दक्षिणस्थाने तिष्ठन्वै विगतज्वरः
तं ये विन्दन्ति ते देवि नूनं मामेव विन्दति
शिवं यो वन्दते भूमे स हि मामेव वन्दते
एवमेतन्महाभागे क्षेत्रं हरिहरात्मकम् १४५.
मुक्तिक्षेत्रं प्रथमतो रुरुखण्डं ततः परम्
क्षेत्रं प्रमाणं विज्ञेयं गण्डकी सङ्गतं परम्
गङ्गया मिलिता यत्र भागीरथ्या महाफला
आदौ सा गण्डकी पुण्या भागीरथ्या च सङ्गता
एतत्ते कथितं भद्रे शालग्रामस्य सुन्दरि
पूर्वपृष्टं तया यच्च पुण्यं भागवतप्रियम्
पुण्यानां परमं पुण्यं तपसां च महत्तपः
महालाभस्तु लाभानां नास्त्यस्मादपरं महत्
नीचाय न च दातव्यं ये न जानन्ति सेवितुम् १४५.
लोभमोहमदाद्यैर्ये वर्जिताः पुण्यबुद्धयः
कुलानि तारितान्येवं सप्त सप्त च सप्त च
यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति
कथितं ते महादेवि किमन्यच्छ्रोतुमिच्छसि
इति श्रीवराहपुराणे भगवच्छास्त्रे शालग्रामक्षेत्रमाहात्म्यं नाम पंचचत्वारिंशदधिकशततमोऽध्यायः
अथ रुरुक्षेत्रस्थहृषीकेशमाहात्म्यम् शालग्रामस्य माहात्म्यं श्रुत्वा गुह्यं महौजसम्
धरण्युवाच एतच्छ्रुत्वा महाभाग जातास्मि विगतज्वरा
रुरुषण्डमिति प्रोक्तं यत्त्वया परमार्च्चितम्
यन्नाम्ना परमं क्षेत्रं हृषीकेश त्वयाश्रितम्
श्रीवराह उवाच भृगुवंशे समुत्पन्नो वेदवेदाङ्गपारगः
यज्ञविद्यासु कुशलो व्रतनिष्ठोऽतिथिप्रियः
शान्तैर्मृगगणैः कीर्णं कन्दमूलफलान्वितम्