अथात्र मुञ्चते प्राणान्मम कमार्नुसारकः
गन्धर्वेति च विख्यातं तस्मिन् क्षेत्रं परं मम
तत्र स्नानं तु कुर्वीत चतूरात्रो षितो नरः
अथात्र मुञ्चते प्राणान्ममकर्मपरायणः
तत्र देवह्रदं नाम मम क्षेत्रं वसुन्धरे
स ह्रदो वरदः श्रेष्ठो मनोज्ञः सुखशीतलः
तस्मिन् ह्रदे महाभागे मम वै नियमोदके
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
पश्येति श्रद्दधानस्तु न पश्यत्पापपूरुषः
सौवर्णानि च पद्मानि दृश्यन्ते भास्करोदये १४५.
यत्र स्नाता दिवं यांति शुद्धा वाक्कायजैर्मलैः
दशानामश्वमेधानां प्राप्नोत्यविकलं फलम्
अश्वमेधफलं भुक्त्वा भूमे मत्समतां व्रजेत्
संभेदो देवनद्योस्तु समस्तसुखवल्लभः
गन्धर्वाप्सरसश्चैव नागकन्याः सहोरगैः
सिद्धाश्च किन्नराश्चैव स्वर्गादवतरन्ति हि
तेभ्यस्तेभ्यश्च स्थानेभ्यस्तीर्थेभ्यश्च विशेषतः
श्वतेगंगेति या प्रोक्ता तया संभूय सादरम्
गण्डक्या कृष्णया चैव या कृष्णस्य तनूद्भवा
त्रिशूलगंगेत्याख्याता सापि तत्र महानदी १४५.
मम क्षेत्रे समाख्यातं पुण्यं परमपावनम्
यच्च सिद्धाश्रम इति विख्यातः पुण्यवर्द्धनः
नानापुष्पफलोपेतं कदलीषण्डमण्डितम्
खर्ज्जूराशोकबकुलैश्चूतैश्चैव प्रियालकैः
नारंगैर्बदरीभिश्च जंबीरैर्मातुलुंगकैः
कुन्दैः कुरवकैर्नागैः कुटजैर्दाडिमैरपि
तस्मिन्ह्रदे महापुण्ये पुण्यनद्योस्तु संगमे
स्नात्वा तत्र तु वैशाखे गोसहस्रफलं भवेत्
कार्त्तिके मासि यः स्नाति तुलासंस्थे दिवाकरे
यस्त्रिरात्रमुषित्वा तु नियते नियता शनः १४५.