नरमेधस्य यज्ञस्य फलं प्राप्नोति मानवः १४५.
नरमेधफलं भुक्त्वा मम लोके च मोदते
तत्र शङ्खप्रभं नाम गुह्यं क्षेत्रं परं मम
गदाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः
अथ वै मुंचते प्राणान्कृतकृत्यो गुणान्वितः
पुनश्चाग्निप्रभं नाम गुह्यं क्षेत्रं परं मम
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः
अथात्र मुंचते प्राणान् मम कर्मसु निष्ठितः
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु
गुह्यं सर्वायुधं नाम तत्र क्षेत्रे परं मम १४५.
तत्र स्नानं प्रकुर्वीत सप्तरात्रोषितो नरः
अथ वै मुंचते प्राणान्मम कर्माविनिश्चितः
तत्र स्नानं तु कुर्वीत त्वष्टकालोषितो नरः
अथात्र मुंचते प्राणाँल्लोभमोहविवर्ज्जितः
गुह्यं विद्याधरं नाम तत्र क्षेत्रं परं मम
यस्तत्र कुरुते स्नानं मेकरात्रोषितो नरः
अथात्र मुंचते प्राणान्वीतरागो गतक्लमः
तत्र पुण्यनदी नाम गुह्यक्षेत्रे परे मम
तत्र स्नानं तु कुर्वीत अष्ट रात्रोषितो नरः १४५.
अथात्र मुञ्चते प्राणान्मम कमार्नुसारकः
गन्धर्वेति च विख्यातं तस्मिन् क्षेत्रं परं मम
तत्र स्नानं तु कुर्वीत चतूरात्रो षितो नरः
अथात्र मुञ्चते प्राणान्ममकर्मपरायणः
तत्र देवह्रदं नाम मम क्षेत्रं वसुन्धरे
स ह्रदो वरदः श्रेष्ठो मनोज्ञः सुखशीतलः
तस्मिन् ह्रदे महाभागे मम वै नियमोदके
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे
पश्येति श्रद्दधानस्तु न पश्यत्पापपूरुषः
सौवर्णानि च पद्मानि दृश्यन्ते भास्करोदये १४५.