स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् । जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् ।। ११.
एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् । (मुमोच दुर्जयबले कालचक्रं सुदर्शनम्) ।। ११.
तेन चक्रेण तत्सैन्यमासुरं दौर्जयं क्षणात् । निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् ।। ११.
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् ।। ११.
अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् । भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः ।। ११.
अहं च यज्ञपुरुष एतस्मिन् वनगोचरे । नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः । कृते युगे भविष्यन्ति राजानो मणिजा मुने ।। ११.
एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः । द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ।। ११.
श्रीवराह उवाच । ततः पुत्रं रथाङ्गाग्निदग्धं श्रुत्वा नृपोत्तमः । सुप्रतीकः प्रतीतात्मा चिन्तयामास पार्थिवः । तस्य चिन्तयतस्त्वेवं तदा बुद्धिरजायत ।। १२.
चित्रकूटे गिरौ विष्णुः सदा रामेति कीर्त्यते । ततोऽहं रामसंज्ञेन नाम्ना स्तौमि जगत्पतिम् ।। १२.
सुप्रतीक उवाच । नमामि रामं नरनाथमच्युतं कविं पुराणं त्रिदशारिनाशनम् । शिवस्वरूपं प्रभवं महेश्वरं सदा प्रपन्नार्तिहरं धृतश्रियम् ।। १२.
भवान् सदा देव समस्ततेजसां करोषि तेजांसि समस्तरूपधृक् । क्षितौ भवान् पञ्चगुणस्तथा जले चतुःप्रकारस्त्रिविधोऽथ तेजसि । द्विधाऽथ वायौ वियति प्रतिष्ठितो भवान् हरे शब्दवपुः पुमानसि ।। १२.
भवान् शशी सूर्यहुताशनोऽसि त्वयि प्रलीनं जगदेतदुच्यते । भवत्प्रतिष्ठं रमते जगत् यतः स्तुतोऽसि रामेति जगत् प्रतिष्ठितम् ।। १२.
भवार्णवे दुःखतरोर्मिसंकुले तथाक्षमानग्रहणेऽतिभीषणे । न मज्जति त्वत्स्मरणप्लवो नरः स्मृतोऽसि रामेति तथा तपोवने ।। १२.
वेदेषु नष्टेषु भवांस्तथा हरे करोषि मात्स्यं वपुरात्मनः सदा । युगक्षये रञ्जितसर्वदिङ्मुखो भवांस्तथाग्निर्बहुरूपधृग् विभो ।। १२.
कौर्मं तथा ते वपुरास्थितः सदा युगे युगे माधव तोयमन्थने । न चान्यदस्तीति भवत्समं क्वचि- ज्जनार्दनाद् यः स्वयं भूतमुत्तमम् ।। १२.
त्वया ततं विश्वमिदं महात्मन् स्वकाखिलान् वेद दिशश्च सर्वाः । कथं त्वमाद्यं परमं तु धाम विहाय चान्यं शरणं व्रजामि ।। १२.
भवानेकः पूर्वमासीत् ततश्च त्वत्तो मही सलिलं वह्निरुच्चैः । वायुस्तथा खं च मनोऽपि बुद्धि- श्चेतोगुणास्तत्प्रभवं च सर्वम् ।। १२.
त्वया ततं विश्वमिदं समस्तं सनातनस्त्वं पुरुषो मतो मे । समस्तविश्वेश्वर विश्वमूर्ते सहस्त्रबाहो जय देव देव । नमोऽस्तु रामाय महानुभाव ।। १२.
इति स्तुतो देववरः प्रसन्नः तदा राज्ञः सुप्रतीकस्य मूर्तिम् । संदर्शयामास ततोऽभ्युवाच वरं वृणीष्वेति च सुप्रतीकम् ।। १२.
एवं श्रुत्वा वचनं तस्य राजा ससंभ्रमं देवदेवं प्रणम्य । उवाच देवेश्वर मे प्रयच्छ लयं यदास्ते परमं वपुस्ते ।। १२.
इतीरिते राजवरः क्षणेन लयं तथाऽगादसुरघ्नमूर्तौ । स्थितस्तस्मिन्नात्मभूतो विमुक्तः स भूमिपः कर्मकाण्डैरनेकैः ।। १२.
श्रीवराह उवाच । इतीरितं ते तु मया पुराणं स्वायम्भुवे चादिकृतैकदेशम् । शक्यं न चास्यैर्बहुभिः सहस्त्रै- रपीह केनापि मुखेन वक्तुम् ।। १२.
उद्देशतः संस्मृतमात्रमेत- न्मया भद्रे कथितं ते पुराणम् । समुद्रतोयात् परिमाणसृष्टिः क्वचित् क्वचिद् वृत्तमथो ह्यनर्ध्यम् ।। १२.
स्वयम्भुवा कथितं ब्रह्मणाऽपि नारायणेनापि कुतो भवेऽन्यः । अशक्यमस्माभिरितीरितं ते तन्मूर्त्तित्वात् स्मरणेनेदमाद्यम् ।। १२.
समुद्रे बालुकासंख्या विद्यते रजसः क्षितौ । न तु सृष्टेः पुनः संख्या क्रीडतः परमेष्ठिनः ।। १२.
एष नारायणस्यांशो मया प्रोक्तः शुचिस्मिते । कृते वृत्तान्त एषश्च किमन्यच्छ्रोतुमिच्छसि ।। १२.
धरण्युवाच । एतत् तन्महदाश्चर्यं दृष्ट्वा गौरमुखो मुनिः । ते चापि मणिजाः प्राप्ताः किं फलं तु वरं गुरोः ।। १३.
कोऽसौ गौरमुखः श्रीमान् मुनिः परमधार्म्मिकः । किं चकार हरेः कर्म्म दृष्ट्वाऽसौ मुनिपुंगवः ।। १३.
श्रीवराह उवाच । निमिषेण कृतं कर्म दृष्ट्वा भगवतो मुनिः । आरिराधयिषुर्देवं तमेव प्रययौ वनम् । प्रभासं नाम सोमस्य तीर्थं परमदुर्लभम् ।। १३.
तत्र दैत्यान्तकृद् देवः प्रोच्यते तीर्थचिन्तकैः । आराधयामास हरिं दैत्यसूदनसंज्ञितम् ।। १३.