अन्यच्च गुह्यं वक्ष्यामि सालङ्कायन तच्छृणु १४५.
शालग्राममिति ख्यातं तन्निबोध मुने शुभम्
एतत्कोऽपि न जानाति विना देवं महेश्वरम्
एवं तस्मै वरं दत्त्वा सालंकायनकाय वै
पश्यतस्तस्य वसुधे तत्रैवान्तर्हितोऽभवम्
मम तद्रोचते स्थानं गिरिकूटशिलोच्चये
तत्र गुह्यानि मे भूमे वक्ष्यमाणानि मे शृणु
गुह्यानि तत्र वसुधे तीर्थानि दश पंच च
तत्र बिल्वप्रभं नाम गुह्यं क्षेत्रं मम प्रियम्
हृद्यं तत्परमं गुह्यं भक्तकर्मसुखावहम्
चतुर्णामश्वमेधानां फलं प्राप्नोति मानवः १४५.
अश्वमेधफलं भुक्त्वा मम लोके स मोदते
चक्राङ्कितशिलास्तत्र दृश्यन्ते च इतस्ततः
तदेतद्विद्धि वसुधे समन्ता द्योजनत्रयम्
त्रयाणामपि यज्ञानां फलं प्राप्नोति निश्चितम्
वाजपेयफलं भुक्त्वा मम् लोकं च गच्छति
तिस्रो धाराः पतन्त्यत्र हिमकूटं समाश्रिताः
त्रयाणामपि रात्रीणां फलं प्राप्नोति निष्कलम्
अतिरात्रफलं भुक्त्वा मम लोके महीयते
अत्र चैव ह्रदस्रोतो बदरीवृक्षनिःसृतः
नरमेधस्य यज्ञस्य फलं प्राप्नोति मानवः १४५.
नरमेधफलं भुक्त्वा मम लोके च मोदते
तत्र शङ्खप्रभं नाम गुह्यं क्षेत्रं परं मम
गदाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम
तत्र स्नानं तु कुर्वीत त्रिरात्रोपोषितो नरः
अथ वै मुंचते प्राणान्कृतकृत्यो गुणान्वितः
पुनश्चाग्निप्रभं नाम गुह्यं क्षेत्रं परं मम
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः
अथात्र मुंचते प्राणान् मम कर्मसु निष्ठितः
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु