वृक्षस्य दक्षिणे पार्श्वे गतस्तावदहं धरे १४५.
स्थित्वा मत्प्रमुखे चैव स्तुवन्नेवं मम प्रियम्
स्तोत्रैः सम्पूज्यमानो हि गतोऽहं पश्चिमां दिशम्
यजुर्वेदोक्तमन्त्रेण संस्तुतः पश्चिमां गतः
तत्रापि सामवेदोक्तैर्मन्त्रैस्तुष्टाव मां मुनिः
प्राप्तश्च परमां प्रीतिं तमवोचमृषिं तदा
तपसानेन सन्तुष्टः स्तुत्या चैवानया तव
एवमुक्तः स तु मया सालंकायनको मुनिः
ततो मां भाषते देवि स ऋषिः संशितव्रतः
पर्यटामि महीं सर्वां सशैलवनकाननाम्
यदि तुष्टोऽसि मे देव सर्वशान्तिकरः परः १४५.
तदा देहि जगन्नाथ ममेश्वर समं सुतम्
एवं वरं याचितोऽस्मि मुनिना भीमकर्मणा
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य तपस्विनः
चिरकालं व्रतस्थेन यत्त्वया चिन्तितं मुने
ईश्वरस्य परा मूर्त्तिर्नाम्ना वै नन्दिकेश्वरः
संहरस्व तपो ब्रह्मञ्शान्तिं गच्छ महामुने
त्वं न जानासि विप्रर्षे स जातो नन्दिकेश्वरः
मथुरायाः समानीय आमुष्यायणसंज्ञितम्
तत्राश्रमे महाभाग स्थित्वा त्वं तपसां निधे
अन्यच्च गुह्यं वक्ष्यामि सालङ्कायन तच्छृणु १४५.
शालग्राममिति ख्यातं तन्निबोध मुने शुभम्
एतत्कोऽपि न जानाति विना देवं महेश्वरम्
एवं तस्मै वरं दत्त्वा सालंकायनकाय वै
पश्यतस्तस्य वसुधे तत्रैवान्तर्हितोऽभवम्
मम तद्रोचते स्थानं गिरिकूटशिलोच्चये
तत्र गुह्यानि मे भूमे वक्ष्यमाणानि मे शृणु
गुह्यानि तत्र वसुधे तीर्थानि दश पंच च
तत्र बिल्वप्रभं नाम गुह्यं क्षेत्रं मम प्रियम्
हृद्यं तत्परमं गुह्यं भक्तकर्मसुखावहम्