गुह्यानां परमं गुह्यं किमन्यच्छ्रोतुमिच्छसि
अथ सालग्रामक्षेत्रमाहात्म्यम् भगवन्देवदेवेश सालंकायनको मुनिः
श्रीवराह उवाच तप्यमानो यथान्यायं पश्यन्वै सालमुत्तमम्
अभिन्नमतुलच्छायं विशालं पुष्पितं तथा
ऋषिर्ज्ञानपरिश्रान्तः सालंकायनकोऽद्भुतम्
ततो दृष्ट्वा महासालं परिश्रान्तो महामुनिः
सालस्य तस्य पूर्वेण स्थितः पश्चान्मुखो मुनिः
ततः पूर्वेण पार्श्वेन तस्य सालस्य सुन्दरि
दृष्ट्वा मां तत्र स मुनिस्त पस्वी संशितव्रतः
मत्तेजसा ताडिताक्षः शनैरुन्मील्य लोचने
वृक्षस्य दक्षिणे पार्श्वे गतस्तावदहं धरे १४५.
स्थित्वा मत्प्रमुखे चैव स्तुवन्नेवं मम प्रियम्
स्तोत्रैः सम्पूज्यमानो हि गतोऽहं पश्चिमां दिशम्
यजुर्वेदोक्तमन्त्रेण संस्तुतः पश्चिमां गतः
तत्रापि सामवेदोक्तैर्मन्त्रैस्तुष्टाव मां मुनिः
प्राप्तश्च परमां प्रीतिं तमवोचमृषिं तदा
तपसानेन सन्तुष्टः स्तुत्या चैवानया तव
एवमुक्तः स तु मया सालंकायनको मुनिः
ततो मां भाषते देवि स ऋषिः संशितव्रतः
पर्यटामि महीं सर्वां सशैलवनकाननाम्
यदि तुष्टोऽसि मे देव सर्वशान्तिकरः परः १४५.
तदा देहि जगन्नाथ ममेश्वर समं सुतम्
एवं वरं याचितोऽस्मि मुनिना भीमकर्मणा
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य तपस्विनः
चिरकालं व्रतस्थेन यत्त्वया चिन्तितं मुने
ईश्वरस्य परा मूर्त्तिर्नाम्ना वै नन्दिकेश्वरः
संहरस्व तपो ब्रह्मञ्शान्तिं गच्छ महामुने
त्वं न जानासि विप्रर्षे स जातो नन्दिकेश्वरः
मथुरायाः समानीय आमुष्यायणसंज्ञितम्
तत्राश्रमे महाभाग स्थित्वा त्वं तपसां निधे