बाहुल्येन बभूवुर्हि तस्मिन्क्षेत्रे परे मम
न सन्देहस्त्वया कार्यस्त्रिवेणीं प्रति सुन्दरि
यदा च भरतो राजा पुलस्त्यस्याश्रमान्तिके
ततःप्रभृति तस्यासीद्भरतेनारतिः स्फुटम्
तैनैव पूजितो यस्माज्जलेश्वर इति स्मृतः
शालग्रामे परे क्षेत्रे यदाहं सुभगे स्थितः
प्रथमं पतितं यत्र तत्र तीर्थं ततोऽभवत्
तत्र स्नानेन तेजस्वी सूर्यलोके महीयते १४४.
भक्तसंरक्षणार्थाय मयाज्ञप्तं सुदर्शनम्
एवं तद्वै भ्रमाक्षिप्तं सर्वं चकमयं त्वभूत्
गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह
यदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः
देवानामटनाच्चैव देवाट इति संज्ञितम्
स शूलपाणिर्देवेशो भक्ताभयविधायकः
तस्मिन्स्थाने महादेवः सालङ्कायनकस्य हि
स्वयं चैव महायोगी योगसिद्धिविधायकः
त्रिजटाभ्योऽभवन्धारा स्तिस्रो वै परमाद्भुताः
एतत्त्रैधारिकं तीर्थं त्रिजटाभ्यः समुत्थितम् १४४.
शालग्रामाभिधे क्षेत्रे हरिशीलनतत्परः
तीर्थे त्रिधारे यः स्रात्वा सन्तर्प्य पितृदेवताः
तस्यैव पूर्वदिग्भागे हंसतीर्थमिति स्मृतम्
कदाचिच्छिवरात्र्यां तु भक्तैः पूजामहोत्सवे
तत्र काकाः समुत्पेतुरन्ने तस्मिन्बुभुक्षिताः
तावुभौ युध्यमानौ तु कुण्डे तस्मिन्निपेततुः
तत्र हंसौ ततो भूत्वा निर्गतौ चन्द्रवर्चसौ
हंसतीर्थमिति प्रोचुस्ततःप्रभृति सत्तमे
पूर्वं यक्षकृतं तत्तु यक्षतीर्थमिति स्मृतम्
तत्राऽथ मुंचते प्राणाञ्छिवभक्तिपरायणः १४४.
एवं प्रभावं तत्तीर्थं महायोगिप्रभावतः
एतत्ते सर्वमाख्यातं क्षेत्रं गुह्यं वसुन्धरे