पुरा वेदनिधेः पुत्रौ जयो विजय एव च
तृणबिन्दोः सुतौ पापौ जातौ दृष्ट्यैव सुव्रतौ
पूजयन्तौ हरिं भक्त्या तन्निष्ठेन्द्रियमानसौ
ददाति पूजावसरे भक्त्या किल वशीकृतः
राज्ञा समाप्तयज्ञेन पूजयित्वा पुरस्कृतौ
विभागं कर्त्तुमारब्धौ पस्पर्द्धाते परस्परम्
विजयश्चाब्रवीच्चैनं येन लब्धं हि तस्य तत्
न ददासि गृहीत्वा यत्तस्माद्ग्राहत्वमाप्नुहि १४४.
गजो भव मदान्धस्त्वं यो मामेवं प्रभाषसे
गण्डक्यामेव सञ्जातो ग्राहः पूर्वस्मृतिर्द्विजः
करिशावैर्गजीभिश्च क्रीडमानो वने वसन्
वने विहरतोर्भूमे शापमोहितयोः सतोः
त्रिवेणीमभितो यातोऽवगाहनपरायणः
स्वयं च पाययंस्ताश्च चिक्रीड प्रीतमानसः
ग्राहः सम्प्रेरितः पूर्वं वैरयोगमनुस्मरन्
ग्राहं विव्याध सोऽप्येनमाकर्षयत तज्जले
आकर्षणैश्च बहुभिर्द्दन्तभेदैः परस्परम्
तत्त्वानि पीडितान्यासन्ननेकानि क्षयं ययुः १४४.
तेन विज्ञापितो देवो भगवान्भक्तवत्सलः
क्षिप्तं पुनः पुनस्तत्तु शिलाः सङ्घट्टयद्धरे
बाहुल्येन बभूवुर्हि तस्मिन्क्षेत्रे परे मम
न सन्देहस्त्वया कार्यस्त्रिवेणीं प्रति सुन्दरि
यदा च भरतो राजा पुलस्त्यस्याश्रमान्तिके
ततःप्रभृति तस्यासीद्भरतेनारतिः स्फुटम्
तैनैव पूजितो यस्माज्जलेश्वर इति स्मृतः
शालग्रामे परे क्षेत्रे यदाहं सुभगे स्थितः
प्रथमं पतितं यत्र तत्र तीर्थं ततोऽभवत्
तत्र स्नानेन तेजस्वी सूर्यलोके महीयते १४४.
भक्तसंरक्षणार्थाय मयाज्ञप्तं सुदर्शनम्
एवं तद्वै भ्रमाक्षिप्तं सर्वं चकमयं त्वभूत्