तं दृष्ट्वा सहसा देवैः समेतं प्रत्युपस्थि तम्
ब्रह्मा तं च महादेवं पप्रच्छ प्रणतः स्थिताः
येन प्रत्याहता क्ष्माऽसौ जगद्व्यतिकरावहा
शिवः क्षणं ततो ध्यात्वा ब्रह्माद्यान् प्रत्युवाच ह
जगाम देवसहितः सोमः सहगणः प्रभुः
उवाच परमप्रीतस्तदा शम्भुः स्मयन्निव
सर्वाधारोऽ खिलाध्यक्षस्तत्किं यत्तव दुर्ल्लभम्
अहं लोकहितार्थाय तपस्तप्तुं समुद्यतः १४४.
त्वद्दर्शनममनुप्राप्य कृतार्थोऽस्मि जगत्पते
शिव उवाच गण्डस्वेदोद्भवा यत्र गण्डकी सरितां वरा
भविष्यति न सन्देहो यस्या गर्भे भविष्यति
अहं ब्रह्मा च देवाश्च ऋषिभिः सह केशव
वसिष्यामः सदैवात्र गण्डक्यां जगतां पते
सर्वपापविनिर्मुक्तो मुक्तिभागी न संशयः
यत्र स्नानेन लभ्येत गंगास्नानफलं नरैः
यस्यास्तत्समतां कान्या लभेद्गंगां विना नदीम्
अपरा देविका नाम्ना गण्डक्या सह संगता
यत्र सृष्टिविधानार्थं कृत्वाश्रमपदं पृथक् १४४.
ततोऽभूद्ब्रह्मतनया पुण्या सा सरितां वरा
त्रिवेणी सा महापुण्या देवानामपि दुर्ल्लभा
पुरा वेदनिधेः पुत्रौ जयो विजय एव च
तृणबिन्दोः सुतौ पापौ जातौ दृष्ट्यैव सुव्रतौ
पूजयन्तौ हरिं भक्त्या तन्निष्ठेन्द्रियमानसौ
ददाति पूजावसरे भक्त्या किल वशीकृतः
राज्ञा समाप्तयज्ञेन पूजयित्वा पुरस्कृतौ
विभागं कर्त्तुमारब्धौ पस्पर्द्धाते परस्परम्
विजयश्चाब्रवीच्चैनं येन लब्धं हि तस्य तत्
न ददासि गृहीत्वा यत्तस्माद्ग्राहत्वमाप्नुहि १४४.
गजो भव मदान्धस्त्वं यो मामेवं प्रभाषसे
गण्डक्यामेव सञ्जातो ग्राहः पूर्वस्मृतिर्द्विजः