वराहपुराणम्
विचार्येति तवाहं वै जातोऽस्मि स्वयमेव च
प्राप्तोऽसि परमां सिद्धिं त्वत्पुत्रोऽहं यतः स्थितः
विस्मितस्तु तदोवाच कथं नाद्यापि मे हरिः
यावत्तं न समीक्षिष्ये तावन्न विरतं तपः
त्वमपि योगेन मथुरां व्रज सत्वरम्
आमुष्यायणमादाय शीघ्रमत्र समानय
ततस्त्वाज्ञां समादाय नन्दी सत्वरमाव्रजत्
दृष्ट्वामुष्यायणं तत्र पृष्ट्वा नाम तमप्युत १४४.
सालंकायनशिष्योऽपि आमुष्यायणसंज्ञितः
गुरोश्च कुशलं ब्रूहि कुत्रास्ते स तपोधनः
तन्मे विस्तरतो ब्रूहि अर्घ्यश्चैवोपगृह्यताम्
वृत्तान्तं कथयामास त्वागमस्य च कारणम्
दिनैः कतिपयैश्चैव गण्डकीतीरमाश्रितः
देविका नाम देवानां प्रभावाच्च तपस्यताम्
आश्रमादपरा चासीत्पुलस्त्यपुलहाश्रमात्
कामिकं तन्महातीर्थं पितॄणामतिवल्लभम्
मुक्तिभुक्तिप्रदं देवि दर्शनादघनाशनम्
धरण्युवाच शूलटङ्क इति ख्यातः सोमेश इति चापरः ।। १४४.
वेणीमाधवनाम्नाऽपि यत्र विष्णुः स्वयं स्थितः
सर्वेषां चैव देवानामृषीणां सरसामपि
यत्राप्लुता दिवं यान्ति मृता मुक्तिं प्रयान्ति च
सैव त्रिवेणी विख्याता किमपूर्वां प्रशंससि
तत्कथ्यतां महाभाग लोकानां हितकाम्यया
श्रीवराह उवाच अत्र ते कीर्त्तयिष्यामि सेतिहासां कथां शुभाम्
पुरा विष्णुस्तपस्तेपे लोकानां हितकाम्यया
ततो बहुतिथे काले याते सति तपस्यतः
तस्योष्मणा समुद्भूतः स्वेदपूरस्तु गण्डयोः
महर्लोकादयः सर्वे विस्मिताः सर्वतो दिशम् १४४.
देवाः सर्वे ततो जग्मुर्ब्रह्माणं प्रति चोत्सुकाः
ब्रह्मापि हि न जानाति मोहितस्तस्य मायया