मूढस्य जगतो मध्ये स्थिता किंचिदजानती
तेन लोके महत्त्वं च त्वत्प्रसादेन चैषिता
दयालुरसि दीनेषु नेति मां न वद प्रभो
तद्याचय वरारोहे अदेयमपि सर्वथा
मद्दर्शनमनु प्राप्य को वाऽपूर्णो मनोरथः
प्रांजलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत्
मम गर्भगतो भूत्वा विष्णो मत्पुत्रतां व्रज
किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया १४४.
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम्
शालग्रामशिलारूपी तव गर्भगतः सदा
मत्सान्निध्यान्नदीनां त्वमतिश्रेष्ठा भविष्यसि
हरिष्यसि महापापं वाङ्मनःकायसम्भवम्
तर्पयेत्स्वपितॄंश्चापि तारयित्वा दिवं नयेत्
सोऽपि याति मम स्थानं यत्र गत्वा न शोचति
एवं दत्त्वा वरान्देव्यै तत्रैवान्तरधीयत
अहं च भगवान्विष्णुर्भक्तेच्छोपात्तविग्रहः
प्रभासयन्नुडुपतेरंगानि प्रममार्ज्ज ह
पश्यतस्तस्य तु विधोस्तत्रैवांतरधीयत १४४.
रावणेन प्रकटिता जलधाराऽतिपुण्यदा
सोमेशात्पूर्व दिग्भागे रावणस्य तपोवनम्
यत्र नृत्येन देवेशस्तुष्टस्तस्मै वरं ददौ
स्नात्वा तु बाणगंगायां दृष्ट्वा बाणेश्वरं प्रभुम्
सालङ्कायनकोऽप्याशु क्षेत्रे तस्मिन्परं मम
अन्यच्च ते प्रवक्ष्यामि परं गुह्यं वसुन्धरे
प्राप्यामीति परं भावं ज्ञात्वा देवो महेश्वरः
सालङ्कायनपुत्रत्वं योगमायामुपाश्रितः
मायायोगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक्
स तं न ज्ञायते जातं ममैवाराधने स्थित. १४४.
उत्तिष्ठ मुनि शार्दूल सफलस्ते मनोरथः
त्वया तपः समारब्धमीश्वरेण समं सुतम्