तथा प्रवृत्ते तुमुलेऽथ युद्धे हतः स राज्ञः सचिवो विसंज्ञः । सहानुगः सर्वबलैरुपेतो जगाम वैवस्वतमन्दिराय ।। ११.
तस्मिन् हते दुर्जयराजमन्त्रिणि उपाययौ स्वेन बलेन राजा । स दुर्जयः साश्वरथोऽतितीव्रः प्रतापवांस्तैर्मणिजैर्युयोध ।। ११.
ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ । ततो हेतुप्रहेतृभ्यां श्रुत्वा जामातरं रणे ।। ११.
युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः । तस्मिन् बले तु दैत्या ये तान् श्रृणुष्व धरेरितान् ।। ११.
प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः । विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयंकरः ।। ११.
अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः । विराधो भीमकर्मा च विप्रचित्तिस्तथैव च ।। ११.
एते पञ्चदश श्रेष्ठा असुराः परमायुधाः । अक्षौहिणीपरीवार एकैकोऽत्र पृथक्पृथक् ।। ११.
महामायास्तु समरे दुर्ज्जयस्य महात्मनः । युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः ।। ११.
(सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः । शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ११.
तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत । संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत ।। ११.
अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः । विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा ।। ११.
उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः । चकर्त्त च धनुस्तस्य शितेन नतपर्वणा ।। ११.
सुमना अग्निदंष्ट्रं तु सुशुभश्चाग्नितेजसम् । सुशीलो वायुशक्रं तु सुमुखश्च प्रतर्दनम् ।। ११.
(विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा । विप्रचित्तिस्तथा सोमं एतद् युद्धं महानभूत् ११.
परस्परं सुयुद्धेन योधयित्वाऽस्त्रलाघवात् । यथासंख्येन ते दैत्याः पुनर्मणिभवैर्हताः ।। ११.
यावत् संग्रामघोरो वै महांस्तेषां व्यवर्द्धत । तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः ।। ११.
आगतो महदाश्चर्यं संग्रामं भीमदर्शनम् । बहुसैन्यपरीवारं स्थितं तं चापि दुर्ज्जयम् ।। ११.
तं दृष्ट्वा स मुनिर्द्वारि चिन्तापरम एव हि । उपविश्याधिगम्याथ मणेः कारणमेव ह ।। ११.
एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् । चिन्तयामास देवेशं हरिं गौरमुखो मुनिः ।। ११.
स देवः पुरतस्तस्य पीतवासाः खगासनः । किमत्र ते मया कार्यमिति वाणीमुदीरयत् ।। ११.
स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् । जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् ।। ११.
एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् । (मुमोच दुर्जयबले कालचक्रं सुदर्शनम्) ।। ११.
तेन चक्रेण तत्सैन्यमासुरं दौर्जयं क्षणात् । निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् ।। ११.
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् ।। ११.
अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् । भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः ।। ११.
अहं च यज्ञपुरुष एतस्मिन् वनगोचरे । नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः । कृते युगे भविष्यन्ति राजानो मणिजा मुने ।। ११.
एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः । द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ।। ११.
श्रीवराह उवाच । ततः पुत्रं रथाङ्गाग्निदग्धं श्रुत्वा नृपोत्तमः । सुप्रतीकः प्रतीतात्मा चिन्तयामास पार्थिवः । तस्य चिन्तयतस्त्वेवं तदा बुद्धिरजायत ।। १२.
चित्रकूटे गिरौ विष्णुः सदा रामेति कीर्त्यते । ततोऽहं रामसंज्ञेन नाम्ना स्तौमि जगत्पतिम् ।। १२.
सुप्रतीक उवाच । नमामि रामं नरनाथमच्युतं कविं पुराणं त्रिदशारिनाशनम् । शिवस्वरूपं प्रभवं महेश्वरं सदा प्रपन्नार्तिहरं धृतश्रियम् ।। १२.