त्रिपुरघ्नं महाकालमन्धकादिनिषूदनम्
नागभोगोपवीतं च रुद्रमालधरं प्रभुम्
वह्निसोमार्क नयनं मनोवाचामगोचरम्
कैलासनिलयं शम्भुं हिमाचलकृताश्रमम्
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते
सोम उवाच एतल्लिंगस्य भक्तानां पूरयस्व मनोरथम्
देवदेव उवाच विशेषतस्त्वदीयेऽस्मिन्नद्यप्रभृतिगोपते
ममैवान्या परा मूर्त्तिस्तं शशाङ्क न संशयः १४४.
वरान्दास्यामि भद्रं ते देवानामपि दुर्लभान्
विष्णुना सह संमन्त्र्य स्थितावावां कलानिधे
तयोः पर्वतयोर्या वै शिला विष्णुशिवाभिधा
मम त्वत्सदृशः पुत्रो भूयादिति मनीषया
रेवायास्तु वरो देयस्त्ववश्यं मृगलाञ्छन
लिंगरूपेण ते देवि गजाननपुरस्कृतः
मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा
एवं दत्तवरा रेवा मत्सान्निध्यमिहागता
गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधो
दिव्यवर्षशतं तेपे विष्णुं चिन्तयती तदा १४४.
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः
अनविच्छिन्नया भक्त्या वरं वरय सुव्रते
गण्डक्यपि पुरा दृष्ट्वा शंखचक्रगदाधरम्
अहो देव मया दृष्टो दुर्दर्शो योगिनामपि
तदनु त्वं प्रविष्टोऽसि पुरुषस्तेन चोच्यते
अनाद्यन्तमपर्यंतं यद्ब्रह्म श्रुतिबोघितम्
तवैवाद्या जगन्माता या शक्तिः परमा स्मृता
निर्गुणः पुरुषोऽव्यक्तश्चित्स्वरूपो निरञ्जनः
स्वां योगमायामाविश्य कर्तृत्वं प्राप्तवानसि
प्रकृतैस्त्रिगुणैरस्मिन्सृज्यमानेऽपि नान्यथा १४४.
स्फटिके हि यथा स्वच्छे जपा कुसुमरागतः
ब्रह्मादयोऽपि कवयो न विदन्ति यथार्थतः