श्रीवराह उवाच कथयिष्यामि मे गुह्यं शालग्राममिति स्मृतम्
द्वापरे तु युगे भूमे यदूनां कुलसंकुले
तस्य पुत्रो महाभागो सर्वकर्मपरायणः
तस्य भार्या च वसुधे सर्वावयवसुन्दरी
तस्या गर्भे महाभागे भविष्यामि न संशयः
ततोऽपि संस्थिते तत्र यादवानां कुलोद्वहे
ममैवाराधनार्थाय भ्रमते स दिशो दश
ततः पिण्डारके गता मम क्षेत्रे वसुन्धरे १४४.
ईश्वरेण समं पूर्वं सर्वयोगेश्वरं स्थितम्
ईश्वरेण समं पूर्वमहमासं वसुन्धरे
तस्मिन्क्षेत्रे हरो देवो मत्स्व रूपेण संयुतः
अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यशः
पूजनीयाः प्रयत्नेन किंपुनश्चक्रलाञ्छिताः
शिवनाभाः शिलास्तत्र चक्रनाभास्तथा शिलाः
सोमेन तत्र संस्थाप्य स्वनाम्ना लिंगमुत्तमम्
ततः शापाद्विनिर्मुक्तः तेजसा च परिप्लुतः
सोमेश्वराच्च वरदमाविर्भूतं त्रियम्बकम्
सोम उवाच नतोऽस्मि पंचवदनं नीलकण्ठं त्रिलोचनम् ।। १४४.
शशांकशेखरं दिव्यं सर्वदेवनमस्कृतम्
त्रिशूलिनं डमरुणा लसद्धस्तं वृषध्वजम्
त्रिपुरघ्नं महाकालमन्धकादिनिषूदनम्
नागभोगोपवीतं च रुद्रमालधरं प्रभुम्
वह्निसोमार्क नयनं मनोवाचामगोचरम्
कैलासनिलयं शम्भुं हिमाचलकृताश्रमम्
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते
सोम उवाच एतल्लिंगस्य भक्तानां पूरयस्व मनोरथम्
देवदेव उवाच विशेषतस्त्वदीयेऽस्मिन्नद्यप्रभृतिगोपते
ममैवान्या परा मूर्त्तिस्तं शशाङ्क न संशयः १४४.
वरान्दास्यामि भद्रं ते देवानामपि दुर्लभान्
विष्णुना सह संमन्त्र्य स्थितावावां कलानिधे