तस्य पश्चिमपार्श्वे तु गुह्यं देवसमन्वितम्
स्नानं करोति यस्तत्र पंचभक्तोषितो नरः
अथ वै मुंचते प्राणांश्चक्रवर्ती महायशाः
दिशं वायव्यमाश्रित्य तस्मिन्विन्ध्यशिलोच्चये
तत्र स्नानं प्रकुर्वीत मम चित्तव्यवस्थितः 143.
अथात्र मुञ्चते प्राणान् तस्मिन्गुह्ये यशस्विनि
तस्य विक्रोशमात्रेण दक्षिणां दिशमाश्रितः
तत्र स्नानं प्रकुर्वीत अष्टरात्रोषितो नरः
अथ वै मुञ्चते प्राणान्मम कर्मव्यवस्थितः
तस्य पश्चिमपार्श्वे तु गुह्यं वै परमं महत्
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः
अथ वै मुञ्चते प्राणान्स्वकर्मपरिनिष्ठितः
क्षेत्रस्य मण्डलं तस्य कथ्यमानं मया शृणु
तत्र तिष्ठामि सुश्रोणि विन्ध्यस्य गिरिमूर्द्धनि
दक्षिणे संस्थितं चक्रं वामे स्थाने च वै गदा 143.
लांगले मुसलं चैव शंखस्तिष्ठति चाग्रतः
एतन्न जानते केचिन्मम माया विमोहिताः
इति श्रीवराहपुराणे भगवच्छास्त्रे मन्दारमहिमानिरूपणं नाम त्रयश्चत्वारिंशदधिकशततमोध्यायः
अथ सोमेश्वरादिलिङ्गमुक्तिक्षेत्रत्रिवेण्यादिमाहात्म्यम् श्रुत्वा मन्दारमाहात्म्यं धर्मकामा वसुन्धरा
धरण्युवाच मन्दारात्परमं स्थानं विष्णो तद्वक्तुमर्हसि
श्रीवराह उवाच कथयिष्यामि मे गुह्यं शालग्राममिति स्मृतम्
द्वापरे तु युगे भूमे यदूनां कुलसंकुले
तस्य पुत्रो महाभागो सर्वकर्मपरायणः
तस्य भार्या च वसुधे सर्वावयवसुन्दरी
तस्या गर्भे महाभागे भविष्यामि न संशयः
ततोऽपि संस्थिते तत्र यादवानां कुलोद्वहे
ममैवाराधनार्थाय भ्रमते स दिशो दश
ततः पिण्डारके गता मम क्षेत्रे वसुन्धरे १४४.
ईश्वरेण समं पूर्वं सर्वयोगेश्वरं स्थितम्
ईश्वरेण समं पूर्वमहमासं वसुन्धरे