धरण्युवाच मन्दारेति त्वया प्रोक्तं देवधर्मार्थसंयुतम्
मन्दारे कानि कर्माणि कुर्वन्ति च ततो नराः
मन्दारे कानि गुह्यानि रहस्यं किंच तत्र वै
श्रीवराह उवाच कथयिष्यामि ते गुह्यां मन्दारस्य महाक्रियाम्
क्रीडमानोऽस्महं तत्र मन्दारे पुष्पिते तदा
ततो ममाभवच्चिन्ता मन्दारे पर्वतस्थिते 143.
विन्ध्ये च मत्प्रभावेण मन्दारश्च महाद्रुमः
दर्शनीयतमं स्थानं मनोज्ञं च शिलातलम्
विस्मयं शृणु सुश्रोणि मन्दारेऽस्मिन्महाद्रुमे
तत्र मध्याह्नवेलायां वीक्ष्यमाणो जनैस्ततः
तस्मिन्मंदारकुण्डे तु एकभक्तोषितो नरः
अथ प्राणान्प्रमुच्येत कुण्डे मन्दारसंस्थिते
तस्य चोत्तरपार्श्वे च प्रापणं नाम वै गिरिः
स्नानकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम
तत्राथ मुंचते प्राणान्मम कर्मपरायणः 143.
तस्य पूर्वोत्तरे पार्श्वे गुह्यं वैकुण्ठकारणम्
यस्तत्र कुरुते स्नानमैकरात्रोषितो नरः
तथाऽत्र मुंचते प्राणान्कृतकृत्यः सुनिश्चितः
तस्य दक्षिणपूर्वेण समस्रोतो वरांगणे
तत्र स्नानं तु कुर्वीत एकभक्तोषितो नरः
अथात्र मुंचते प्राणान्मम चित्तव्यवस्थितः
मन्दारस्य तु पूर्वेण गुह्यं कोटरसंस्थितम्
तत्र स्नानं प्रकुर्वीत पंचभक्तोषितो नरः
अथात्र मुंचते प्राणान् कृत्वा कर्म सुदुष्करम्
तस्य दक्षिणपार्श्वे तु गुह्यं विन्ध्यविनिःसृतम् 143.
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः
अथात्र मुंचते प्राणान्कृत्वा कर्म सुदुष्करम्
दक्षिणे पश्चिमे भागे मन्दारस्य यशस्विनि
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः
अथात्र मुंचते प्राणान्मम कर्मव्यवस्थितः