जायन्ते चात्मनः स्थाने स्वस्वकर्मसमुद्भवे 142.
अल्पकालपरं चैव माससंवत्सरेति च
यस्यैतद्विदितं सर्वं न्यासयोगं वसुन्धरे
य एतच्छृणुयान्नित्यं कल्यमुत्थाय मानवः
एतत्ते कथितं भद्रे रहस्यं परमं महत्
इति श्रीवराहपुराणे भगवच्छास्त्रे गुह्यकर्ममाहात्म्यवर्णनं नाम द्वाचत्वारिंशदधिकशततमोऽध्यायः
अथ मन्दारमहिमनिरूपणम् पुनरन्यत्प्रवक्ष्यामि एकान्तं शृणु सुन्दरि
जाह्नव्या दक्षिणे कूले विन्ध्यपृष्ठसमाश्रितम्
तत्र त्रेतायुगे भूमे रामो नाम महाद्युतिः
नारायणमुखाच्छ्रुत्वा धर्मकामा वसुन्धरा
धरण्युवाच मन्दारेति त्वया प्रोक्तं देवधर्मार्थसंयुतम्
मन्दारे कानि कर्माणि कुर्वन्ति च ततो नराः
मन्दारे कानि गुह्यानि रहस्यं किंच तत्र वै
श्रीवराह उवाच कथयिष्यामि ते गुह्यां मन्दारस्य महाक्रियाम्
क्रीडमानोऽस्महं तत्र मन्दारे पुष्पिते तदा
ततो ममाभवच्चिन्ता मन्दारे पर्वतस्थिते 143.
विन्ध्ये च मत्प्रभावेण मन्दारश्च महाद्रुमः
दर्शनीयतमं स्थानं मनोज्ञं च शिलातलम्
विस्मयं शृणु सुश्रोणि मन्दारेऽस्मिन्महाद्रुमे
तत्र मध्याह्नवेलायां वीक्ष्यमाणो जनैस्ततः
तस्मिन्मंदारकुण्डे तु एकभक्तोषितो नरः
अथ प्राणान्प्रमुच्येत कुण्डे मन्दारसंस्थिते
तस्य चोत्तरपार्श्वे च प्रापणं नाम वै गिरिः
स्नानकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम
तत्राथ मुंचते प्राणान्मम कर्मपरायणः 143.
तस्य पूर्वोत्तरे पार्श्वे गुह्यं वैकुण्ठकारणम्
यस्तत्र कुरुते स्नानमैकरात्रोषितो नरः
तथाऽत्र मुंचते प्राणान्कृतकृत्यः सुनिश्चितः
तस्य दक्षिणपूर्वेण समस्रोतो वरांगणे
तत्र स्नानं तु कुर्वीत एकभक्तोषितो नरः