तत्राग्निहोत्रशालायां दृष्ट्वा तं मणिमाहितम् । उत्तीर्य स्यन्दनान्नीलः सोऽवरोहत भूतले ।। ११.
अवतीर्णे ततस्तस्मिन् नीले परमदारुणे । क्रूरबुद्ध्या मणेस्तस्मान्निर्जग्मुः शस्त्रपाणयः ।। ११.
सरथाः सध्वजाः साश्वाः सबाणाः सासिचर्मिणः । सधनुष्काः सतूणीरा योधाः परमदुर्जयाः । निश्चेरुस्तं मणिं भित्वा असंख्येया महाबलाः ।। ११.
तत्र सज्जा महाशूरा दश पञ्च च संख्यया । नामभिस्तान् महाभागे कथयामि श्रृणुष्व तान् ।। ११.
सुप्रभो दीप्ततेजाश्च सुरश्मिः शुभदर्शनः । सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः ।। ११.
सुशीलः सुखदः शम्भुः सुदान्तः सोम एव च । एते पञ्चदश प्रोक्ता नायका मणितोत्थिताः ।। ११.
ततो विरोचनं दृष्ट्वा बहुसैन्यपरिष्कृतम् । योधयामासुरव्यग्रा विविधायुधपाणयः ।। ११.
धनूंषि तेषां कनकप्रभाणि शरान् सुजाम्बूनदपुङ्खनद्धान् । पतन्ति खङ्गानि विभीषणानि भुशुण्डिशूलाः परमप्रधानाः ।। ११.
रथो रथं संपरिवार्य तस्थौ गजो गजस्यापि हयो हरस्य । पदातिरत्युग्रपराक्रमश्च पदातिमेव प्रससार चाग्र्यम् ।। ११.
द्वन्द्वन्यनेकानि तथैव युद्धे द्रवन्ति शूराः परिभर्त्सयन्तः । विभीषणं निर्गतचापमार्गं बभूव बाहुप्रभवं सुघोरम् ।। ११.
तथा प्रवृत्ते तुमुलेऽथ युद्धे हतः स राज्ञः सचिवो विसंज्ञः । सहानुगः सर्वबलैरुपेतो जगाम वैवस्वतमन्दिराय ।। ११.
तस्मिन् हते दुर्जयराजमन्त्रिणि उपाययौ स्वेन बलेन राजा । स दुर्जयः साश्वरथोऽतितीव्रः प्रतापवांस्तैर्मणिजैर्युयोध ।। ११.
ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ । ततो हेतुप्रहेतृभ्यां श्रुत्वा जामातरं रणे ।। ११.
युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः । तस्मिन् बले तु दैत्या ये तान् श्रृणुष्व धरेरितान् ।। ११.
प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः । विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयंकरः ।। ११.
अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः । विराधो भीमकर्मा च विप्रचित्तिस्तथैव च ।। ११.
एते पञ्चदश श्रेष्ठा असुराः परमायुधाः । अक्षौहिणीपरीवार एकैकोऽत्र पृथक्पृथक् ।। ११.
महामायास्तु समरे दुर्ज्जयस्य महात्मनः । युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः ।। ११.
(सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः । शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ११.
तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत । संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत ।। ११.
अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः । विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा ।। ११.
उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः । चकर्त्त च धनुस्तस्य शितेन नतपर्वणा ।। ११.
सुमना अग्निदंष्ट्रं तु सुशुभश्चाग्नितेजसम् । सुशीलो वायुशक्रं तु सुमुखश्च प्रतर्दनम् ।। ११.
(विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा । विप्रचित्तिस्तथा सोमं एतद् युद्धं महानभूत् ११.
परस्परं सुयुद्धेन योधयित्वाऽस्त्रलाघवात् । यथासंख्येन ते दैत्याः पुनर्मणिभवैर्हताः ।। ११.
यावत् संग्रामघोरो वै महांस्तेषां व्यवर्द्धत । तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः ।। ११.
आगतो महदाश्चर्यं संग्रामं भीमदर्शनम् । बहुसैन्यपरीवारं स्थितं तं चापि दुर्ज्जयम् ।। ११.
तं दृष्ट्वा स मुनिर्द्वारि चिन्तापरम एव हि । उपविश्याधिगम्याथ मणेः कारणमेव ह ।। ११.
एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् । चिन्तयामास देवेशं हरिं गौरमुखो मुनिः ।। ११.
स देवः पुरतस्तस्य पीतवासाः खगासनः । किमत्र ते मया कार्यमिति वाणीमुदीरयत् ।। ११.