प्राप्नुवन्ति च दुःखानि भ्रमच्चित्ता नराधमाः
न्यस्य ज्ञानं च योगं च एकचित्ता भजस्व माम्
मच्चित्तः सततं यो मां भजेत नियतव्रतः 142.
मया चैव पुरा सृष्टं प्रजार्थेन वसुन्धरे
एकचित्तं समादाय यदीच्छेत्तु मम प्रियम्
पितरस्तस्य हन्यन्ते दश पूर्वा दशापराः
त्यक्त्वानङ्गं च मोहं च पित्रर्थाय स्त्रियं व्रजेत्
न संस्पृशेत्तृतीयां तु चतुर्थी न कदाचन
जलस्नानं ततः कुर्यादन्यवस्त्रपरिग्रहम्
रेतःपाः पितरस्तस्य एवमेतन्न संशयः
तृतीयां वा चतुर्थीं वा तदा स पुरुषोऽधमः
ऋतुकाले तु सर्वासां पित्रर्थं भोग इष्यते 142.
न गच्छति च यः क्रोधान्मोहाद्वा पुरुषाधमः
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
कर्मणा यान्ति मत्स्थानं यान्ति मद्गाननिष्ठिताः
ज्ञानं योगं च सांख्यं च नास्ति चित्तव्यपाश्रितम्
यस्तु भागवतो भूत्वा ऋतुकाले व्यवस्थितः
अथ तत्र चतुर्थे तु दिने प्राप्ते वसुन्धरे
ततः स्नानेन कुर्वीत शिरसो मलशोधनम्
ततो बुद्धिं मनश्चैव समं कृत्वा वसुन्धरे
तत्र मन्त्रः – आदिर्भवान्गुप्तमनन्तमध्यो रजस्वला देव वयं नमामः 142.
तत एतेन मन्त्रेण शुद्धा भूमे रजस्वलाः
एवं दुष्यति नो देवि नारी वा पुरुषोऽपि वा
सर्वाण्यनुदिनं भद्रे मम चित्तानुसारिणः
एकचित्तस्ततो भूत्वा भूमे चेन्द्रियनिग्रहात्
एवं कुर्वन्ति ये नित्यं स्त्रियः पुंसो नपुंसकम्
अद्यापि मां न जानन्ति नराः संसारसंश्रिताः
मातापितृसहस्राणि पुत्रदारशतानि च
अज्ञानेनावृतो लोको मोहेन च वशीकृतः
गच्छत्यन्यत्र माता वै पिता चान्यत्र गच्छति