समचित्तं प्रपद्यन्ते न ते लिप्यन्ति मानवाः
समं चित्तं मयि यदि तदा तस्य न च क्रिया
यत्किंचित्कुर्वतः कर्म पद्मपत्रमिवांभसि 142.
रात्रिन्दिवं मुहूर्तं वा क्षणं वा यदि वा कला
सदा दिवानिशोश्चैव कुर्वन्तः कर्मसङ्करम्
जाग्रतः स्वपतो वापि शृण्वतः पश्यतोऽपि वा
दुर्वृत्तमपि चाण्डालं ब्राह्मणं चाऽपथि स्थितम्
यजन्तः सर्वधर्मज्ञा ज्ञानसंस्कारसंस्कृताः
ये मत्कर्माणि कुर्वन्ति मया हृदि समाश्रिताः
येषां प्रशांतं चित्तं वै तेऽपि देवि मम प्रियाः
प्राप्नुवन्ति च दुःखानि भ्रमच्चित्ता नराधमाः
न्यस्य ज्ञानं च योगं च एकचित्ता भजस्व माम्
मच्चित्तः सततं यो मां भजेत नियतव्रतः 142.
मया चैव पुरा सृष्टं प्रजार्थेन वसुन्धरे
एकचित्तं समादाय यदीच्छेत्तु मम प्रियम्
पितरस्तस्य हन्यन्ते दश पूर्वा दशापराः
त्यक्त्वानङ्गं च मोहं च पित्रर्थाय स्त्रियं व्रजेत्
न संस्पृशेत्तृतीयां तु चतुर्थी न कदाचन
जलस्नानं ततः कुर्यादन्यवस्त्रपरिग्रहम्
रेतःपाः पितरस्तस्य एवमेतन्न संशयः
तृतीयां वा चतुर्थीं वा तदा स पुरुषोऽधमः
ऋतुकाले तु सर्वासां पित्रर्थं भोग इष्यते 142.
न गच्छति च यः क्रोधान्मोहाद्वा पुरुषाधमः
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
कर्मणा यान्ति मत्स्थानं यान्ति मद्गाननिष्ठिताः
ज्ञानं योगं च सांख्यं च नास्ति चित्तव्यपाश्रितम्
यस्तु भागवतो भूत्वा ऋतुकाले व्यवस्थितः
अथ तत्र चतुर्थे तु दिने प्राप्ते वसुन्धरे
ततः स्नानेन कुर्वीत शिरसो मलशोधनम्
ततो बुद्धिं मनश्चैव समं कृत्वा वसुन्धरे