यदि भावस्तदा कश्चिद्भोजने कायसाधने
न सा लिप्यति दोषेण भुञ्जमाना रजस्वला
( अनादिमध्यान्तमजं पुराणं रजस्वला देववरं नमामि करोति यानि कर्माणि न तैर्दुष्येत कर्हिचित् ।। 142.
स्नात्वा सा तु महाभागे पंचमात्तु दिनात्पुनः
यथार्हं कुरुते कर्म मच्चित्ता मत्परायणा
धरण्युवाच कथं दोषेण मुच्यन्ते जन्मसंसारबन्धनात्
श्रीवराह उवाच मयि संन्यासयोगेन मम कर्मपरायणः
मम योगेषु संन्यासमेकचित्तो दृढव्रतः
ज्ञानसंन्यासयोगं वा यदीच्छेत्परमां गतिम्
मनो बुद्धिश्च चित्तं च ते ह्यनीशाः शरीरिणाम्
समचित्तं प्रपद्यन्ते न ते लिप्यन्ति मानवाः
समं चित्तं मयि यदि तदा तस्य न च क्रिया
यत्किंचित्कुर्वतः कर्म पद्मपत्रमिवांभसि 142.
रात्रिन्दिवं मुहूर्तं वा क्षणं वा यदि वा कला
सदा दिवानिशोश्चैव कुर्वन्तः कर्मसङ्करम्
जाग्रतः स्वपतो वापि शृण्वतः पश्यतोऽपि वा
दुर्वृत्तमपि चाण्डालं ब्राह्मणं चाऽपथि स्थितम्
यजन्तः सर्वधर्मज्ञा ज्ञानसंस्कारसंस्कृताः
ये मत्कर्माणि कुर्वन्ति मया हृदि समाश्रिताः
येषां प्रशांतं चित्तं वै तेऽपि देवि मम प्रियाः
प्राप्नुवन्ति च दुःखानि भ्रमच्चित्ता नराधमाः
न्यस्य ज्ञानं च योगं च एकचित्ता भजस्व माम्
मच्चित्तः सततं यो मां भजेत नियतव्रतः 142.
मया चैव पुरा सृष्टं प्रजार्थेन वसुन्धरे
एकचित्तं समादाय यदीच्छेत्तु मम प्रियम्
पितरस्तस्य हन्यन्ते दश पूर्वा दशापराः
त्यक्त्वानङ्गं च मोहं च पित्रर्थाय स्त्रियं व्रजेत्
न संस्पृशेत्तृतीयां तु चतुर्थी न कदाचन
जलस्नानं ततः कुर्यादन्यवस्त्रपरिग्रहम्
रेतःपाः पितरस्तस्य एवमेतन्न संशयः