ततस्ता देवताः सर्वाः प्रत्यूचुश्च पितामहम्
देवानां तु वचः श्रुत्वा ब्रह्मा लोकापितामहः 141.
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
विभावयन्ति मां तत्र देवा इन्द्रपुरोगमाः
त्रायस्व नो हृषीकेश परमानुग्रहेण वै
मया विलोकिताः सर्वे परां निर्वृतिमागताः
यः स्नाति सर्वपापेभ्यो मुच्यते नात्र संशयः
यस्तत्रोत्सृजते प्राणान्मम कर्मपरायणः
श्रीबदर्याश्रमं पुण्यं यत्र यत्र स्थितः स्मरेत्
य इदं शृणुयान्नित्यं मद्भक्तः सततं पठेत्
ध्यानयोगरतो नित्यं स मुक्तिफलभाग्भवेत्
योऽवगच्छति चात्मानं स गच्छेत्परमां गतिम् ।।141.
इति श्रीवराहपुराणे भगवच्छास्त्रे बदरिकाश्रममाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः
अथ गुह्यकर्ममाहात्म्यम् ततो देववचः श्रुत्वा धर्मकामा वसुन्धरा
धरण्युवाच मृदुना च स्वभावेन वक्ष्यामि त्वां जनार्दन
अल्पप्राणबला नार्यो यत्त्वया परिभाषितम्
भुञ्जमाना नरा ह्यत्र रजसा यांति शं परम्
तस्यास्तद्वचनं श्रुत्वा माधव्याः स तु माधवः
श्रीवराह उवाच पृष्टोऽहं परमं गुह्यं मम भक्तसुखावहम्
स्पृष्टा या रजसा देवि मम कर्मपरायणा
यदि भावस्तदा कश्चिद्भोजने कायसाधने
न सा लिप्यति दोषेण भुञ्जमाना रजस्वला
( अनादिमध्यान्तमजं पुराणं रजस्वला देववरं नमामि करोति यानि कर्माणि न तैर्दुष्येत कर्हिचित् ।। 142.
स्नात्वा सा तु महाभागे पंचमात्तु दिनात्पुनः
यथार्हं कुरुते कर्म मच्चित्ता मत्परायणा
धरण्युवाच कथं दोषेण मुच्यन्ते जन्मसंसारबन्धनात्
श्रीवराह उवाच मयि संन्यासयोगेन मम कर्मपरायणः
मम योगेषु संन्यासमेकचित्तो दृढव्रतः
ज्ञानसंन्यासयोगं वा यदीच्छेत्परमां गतिम्
मनो बुद्धिश्च चित्तं च ते ह्यनीशाः शरीरिणाम्