अस्ति पञ्चशिरं नाम तस्मिन्गुह्यं परं मम
तत्र वै पंच कुण्डानि स्थूलशीर्षशिलोच्चये 141.
यत्र तन्मध्यमं कुण्डं छिन्नमेव स्वयम्भुवा
यस्तत्र कुरुते स्नानं पंचरात्रोषितो नरः
तथात्र मुञ्चते प्राणान् गुह्ये पञ्चशिरे मम
बुद्धिमान्मतिमांश्चैव रागमोहविवर्जितः
अस्ति सोमाभिषेकेति तीर्थमन्यत्परं मम। राजत्वे ब्राह्मणानां तु मया सोमोऽभिषेचितः
तत्राहं तोषितस्तेन अत्रिपुत्रेण माधवि
प्राप्तश्च परमां सिद्धिं मत्प्रसादाद्वसुन्धरे
जायतेऽस्मिन्प्रलीयंते स्कन्देन्द्राः समरुद्गणाः
तत्र सोमगिरिर्नाम यत्र धारा पतेद्भुवि
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः 141.
अथात्र म्रियते देवि कृत्वा कर्म सुदुष्करम्
अस्ति चोर्वशिकुण्डेति गुह्यं क्षेत्रे परं मम
तत्र तप्याम्यहं देवि देवानामपि कारणात्
ततो मे तप्यमानस्य बहुवर्षव्यतिक्रमात्
एकैकेन फलेनाऽत्र बदर्यां तु सुनिश्चितम्
तत्राहं दश कोट्यस्तु दशवर्षं दशार्बुदम्
ततस्ते मां न पश्यन्ति देवा गुह्यपथे स्थितम्
अहं पश्यामि सर्वं वै तपःसंस्थो वसुन्धरे
ततस्ता देवताः सर्वाः प्रत्यूचुश्च पितामहम्
देवानां तु वचः श्रुत्वा ब्रह्मा लोकापितामहः 141.
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
विभावयन्ति मां तत्र देवा इन्द्रपुरोगमाः
त्रायस्व नो हृषीकेश परमानुग्रहेण वै
मया विलोकिताः सर्वे परां निर्वृतिमागताः
यः स्नाति सर्वपापेभ्यो मुच्यते नात्र संशयः
यस्तत्रोत्सृजते प्राणान्मम कर्मपरायणः
श्रीबदर्याश्रमं पुण्यं यत्र यत्र स्थितः स्मरेत्
य इदं शृणुयान्नित्यं मद्भक्तः सततं पठेत्