अथ प्राणान्परित्यज्य कृत्वा कर्म सुदुष्करम्
वेदधारमिति ख्यातं तस्मिन्क्षेत्रे परे मम 141.
तत्रैव हिमवत्पृष्ठे चतुःशृङ्गाद्बृहत्तराः
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः
अथात्र मुञ्चते प्राणान्मम कर्मपथे स्थितः। देवलोकमतिक्रम्य मम लोकं प्रतिष्ठते
द्वादशादित्यकुण्डेति तस्मिन्क्षेत्रे परे मम
तत्र पर्वतशृंगे तु स्थूलमूले शिलातले
यस्तत्र कुरुते स्नानं यां काञ्चिद्द्वादशीं यदि
अथात्र मुञ्चते प्राणान्मम कर्मणि संस्थितः
लोकपालमिति ख्यातं तस्मिन्क्षेत्रे परे मम
तत्र पर्वतमध्ये तु स्थलकुण्डं बृहन्मम
तत्र स्नानं तु कुर्वीत ज्येष्ठमासस्य द्वादशीम् 141.
अथात्र मुञ्चते प्राणान्मम कर्मसु तत्परः
अस्ति मेरोर्वरं नाम तस्मिन् गुह्यं परं मम
धारास्तिस्रः पतन्त्यत्र सुवर्णसदृशप्रभाः
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः
अथ तत्र मृतो देवि तस्मिन् गुह्ये परे मम
मानसोद्भेदमिति च तत्रान्यत्तीर्थमुत्तमम्
देवा अपि न जानन्ति तं देशं तत्र संस्थितम्
यस्तत्र कुरुते स्नानमहोरात्रोषितो नरः
अस्ति पञ्चशिरं नाम तस्मिन्गुह्यं परं मम
तत्र वै पंच कुण्डानि स्थूलशीर्षशिलोच्चये 141.
यत्र तन्मध्यमं कुण्डं छिन्नमेव स्वयम्भुवा
यस्तत्र कुरुते स्नानं पंचरात्रोषितो नरः
तथात्र मुञ्चते प्राणान् गुह्ये पञ्चशिरे मम
बुद्धिमान्मतिमांश्चैव रागमोहविवर्जितः
अस्ति सोमाभिषेकेति तीर्थमन्यत्परं मम। राजत्वे ब्राह्मणानां तु मया सोमोऽभिषेचितः
तत्राहं तोषितस्तेन अत्रिपुत्रेण माधवि
प्राप्तश्च परमां सिद्धिं मत्प्रसादाद्वसुन्धरे
जायतेऽस्मिन्प्रलीयंते स्कन्देन्द्राः समरुद्गणाः