अग्निसत्यपदं नाम तस्मिन्क्षेत्रे परं मम
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः
इन्द्रलोकमिति ख्यातो बदर्यां च ममाश्रमः 141.
तत्र चैव तु शृङ्गेभ्यः स्थूलधारा पतेत्पुनः
स्नानं करोति यस्तत्र एकरात्रोषितो नरः
अस्ति पञ्चशिखं नाम बदर्याश्रमतीर्थकम्
यस्तत्र कुरुते स्नानं पंचस्रोतसि मानवः
यद्यत्र मुञ्चते प्राणान् कृत्वा कर्म सुदुष्करम्
चतुःस्रोत इति ख्यातं तस्मिन्क्षेत्रे परे मम
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः
अथ प्राणान्परित्यज्य कृत्वा कर्म सुदुष्करम्
वेदधारमिति ख्यातं तस्मिन्क्षेत्रे परे मम 141.
तत्रैव हिमवत्पृष्ठे चतुःशृङ्गाद्बृहत्तराः
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः
अथात्र मुञ्चते प्राणान्मम कर्मपथे स्थितः। देवलोकमतिक्रम्य मम लोकं प्रतिष्ठते
द्वादशादित्यकुण्डेति तस्मिन्क्षेत्रे परे मम
तत्र पर्वतशृंगे तु स्थूलमूले शिलातले
यस्तत्र कुरुते स्नानं यां काञ्चिद्द्वादशीं यदि
अथात्र मुञ्चते प्राणान्मम कर्मणि संस्थितः
लोकपालमिति ख्यातं तस्मिन्क्षेत्रे परे मम
तत्र पर्वतमध्ये तु स्थलकुण्डं बृहन्मम
तत्र स्नानं तु कुर्वीत ज्येष्ठमासस्य द्वादशीम् 141.
अथात्र मुञ्चते प्राणान्मम कर्मसु तत्परः
अस्ति मेरोर्वरं नाम तस्मिन् गुह्यं परं मम
धारास्तिस्रः पतन्त्यत्र सुवर्णसदृशप्रभाः
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः
अथ तत्र मृतो देवि तस्मिन् गुह्ये परे मम
मानसोद्भेदमिति च तत्रान्यत्तीर्थमुत्तमम्
देवा अपि न जानन्ति तं देशं तत्र संस्थितम्
यस्तत्र कुरुते स्नानमहोरात्रोषितो नरः