तत्राऽथ मुंचते प्राणान्मम कर्मसु निष्ठितः
अस्ति तत्र वरं स्थानं सङ्गमं कौशिकोकयोः
तत्र यः कुरुते स्नानमहोरात्रोषितो नरः
स्वर्गे वा यदि वा भूमौ यं यं कामयते नरः
तत्राऽथ मुंचते प्राणान्मम कर्मण्यवस्थितः 140.
धाराः पतन्ति तिस्रो वै कौशिकीमाश्रिता नदीम्
तत्र च स्नायमानस्तु यदि मत्स्यं प्रपश्यति
तत्र मत्स्यं पुनर्दृष्ट्वा यजमानस्तु सुन्दरि
यस्तत्र कुरुते स्नानं देवि गुह्ये ततः परे
अथ संप्राप्य मुच्येत मत्स्यं गुह्यं परं मम
पंचयोजनविस्तारं क्षेत्रं कोकामुखं मम
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
शिलाचन्दनसंकाशं देवानामपि दुर्लभम्
वामोन्नतमुखं कृत्वा वामदंष्ट्रासमुन्नतम्
ये मां स्मरन्ति वै भूमे पुरुषा मुक्तकिल्बिषाः 140.
यदि कोकामुखं गच्छेत् कदाचित्कालपर्यये
गुह्यानां परमं गुह्यमेतत्स्थानं परं महत्
न च सांख्येन योगेन सिद्धिं यान्ति महापराम्
एवं श्रेष्ठं महाभागे यत्त्वया परिपृच्छिम्
य एतत्कथितं भूमे कोकामुखमनुत्तमम्
मृतो वा तत्र जायेत शुद्धे भागवते कुले
यश्चेदं शृणुयान्नित्यं कल्य उत्थाय मानवः
य एतत्पठते नित्यं कोकाख्यानं तथोषसि
इति श्रीवराहपुराणे भगवच्छास्त्रे कोकामुखमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः
अथ बदरिकाश्रममाहात्म्यम् तस्मिन्हिमवतः पृष्ठे परं गुह्यमतः शृणु
न तत्प्राप्नोति मनुजः कृत्वा कर्म सुदुष्करम्
दुर्ल्लभं तन्मम क्षेत्रं हिमकूटशिलातले
ब्रह्मकुण्डमिति ख्यातमास्ते तत्र शिलोच्चये
स्नानं करोति यस्तत्र त्रिरात्रोपोषितो नरः
मुञ्चेत्प्राणांस्तत्र यदि व्रतनिष्ठो जितेन्द्रियः