तत्राथ मुंचते प्राणान्मम कर्मपरायणः
यमव्यसनकं नाम गुह्यमस्ति परं मम
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः
अथ तत्र त्यजेत्प्राणान्मम कर्मपरायणः
मातंगं नाम विख्यातं तस्मिन्क्षेत्रे परं मम
स्नानं कुर्वंति ये तत्र एकरात्रोषिता नराः 140.
विद्वाञ्छुचिश्च जायेत ममकमार्नुसारकः
मुक्त्वा किम्पुरुषं भेदं मम लोकं च गच्छति
स्रोतो वहति तत्रैकमाश्रितं कौशिकीं नदीम्
जायते शक्रलोके तु मम कर्मानुसारकः
तत्र स्नानप्रभावेण जायते नात्र संशयः
शक्रलोकमतिक्रम्य मम लोकं प्रपद्यते
शक्ररुद्रेति विख्यातं तस्मिन्कोकाशिलातले
अस्ति चान्यन्महद्भद्रे क्षेत्रे गुह्ये विशेषितम्
दंष्ट्रांकुरेति विख्यातं यत्र कोका विनिःसृता 140.
कृतोदकस्तत्र भद्रे अहोरात्रोषितो नरः
तत्राथ मुंचते प्राणान्मम कर्मसु निष्ठितः
तस्मिन्क्षेत्रे महागुह्ये परमस्ति फलोदयम्
ततः पर्वतमध्यात्तु कोकायां पतते जलम्
तस्मिन् कृतोदको भूमे छित्त्वा संसारबन्धनम्
तत्राऽथ मुंचते प्राणान्मम कर्मसु निष्ठितः
अस्ति तत्र वरं स्थानं सङ्गमं कौशिकोकयोः
तत्र यः कुरुते स्नानमहोरात्रोषितो नरः
स्वर्गे वा यदि वा भूमौ यं यं कामयते नरः
तत्राऽथ मुंचते प्राणान्मम कर्मण्यवस्थितः 140.
धाराः पतन्ति तिस्रो वै कौशिकीमाश्रिता नदीम्
तत्र च स्नायमानस्तु यदि मत्स्यं प्रपश्यति
तत्र मत्स्यं पुनर्दृष्ट्वा यजमानस्तु सुन्दरि
यस्तत्र कुरुते स्नानं देवि गुह्ये ततः परे
अथ संप्राप्य मुच्येत मत्स्यं गुह्यं परं मम