पंच धाराः पतन्त्यत्र गिरिकुञ्जसमाश्रिताः
कुशद्वीपे च जायेत मम कर्मपरायणः
कुशद्वीपात्परिभ्रष्टो ब्रह्मलोकं स गच्छति
तत्र स्नानं प्रकुर्वीत पञ्चरात्रोषितो नरः
वसते सूर्यलोकेषु मम मार्गानुसारकः
सूर्यलोकमतिक्रम्य मम लोकं तु गच्छति 140.
एका धारा पतत्यत्र देवि पूर्णा शिलोच्चयात्
सप्तरात्रोषितो भूत्वा मम कर्म समाश्रितः
सप्तद्वीपेषु विहरेन्मम कर्मपरायणः
सप्तद्वीपमतिक्रम्य मम लोकं तु गच्छति
गिरिकुञ्जात्पतत्येका धारा भूमितले शुभा
स वैश्यो जायते शूद्रो मम कर्मपरायणः
सांगयज्ञं सदक्षिण्यं भुक्त्वा मां प्रतिपद्यते
एका धारा पतत्यत्र वटमूलमुपाश्रिता
यावन्ति वटपत्राणि तस्मिञ्छृंगे परे मम
तिष्ठते तु वरारोहे मम मार्गानुसारिणि 140.
अग्निवर्णस्ततो भूत्वा मम लोकं स गच्छति
पतत्येकतमा धारा स्थूला कुंभसमा ततः
जायते च चतुर्वेदी मम कर्मपरायणः
यस्तत्र कुरुते स्नानं पंचरात्रोषितो नरः
तत्राथ मुंचते प्राणान्मम कर्मपरायणः
यमव्यसनकं नाम गुह्यमस्ति परं मम
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः
अथ तत्र त्यजेत्प्राणान्मम कर्मपरायणः
मातंगं नाम विख्यातं तस्मिन्क्षेत्रे परं मम
स्नानं कुर्वंति ये तत्र एकरात्रोषिता नराः 140.
विद्वाञ्छुचिश्च जायेत ममकमार्नुसारकः
मुक्त्वा किम्पुरुषं भेदं मम लोकं च गच्छति
स्रोतो वहति तत्रैकमाश्रितं कौशिकीं नदीम्
जायते शक्रलोके तु मम कर्मानुसारकः