श्रीवराह उवाच तस्मिन् कोकामुखं रम्यं कथ्यमानं मयाऽनघे
जलबिन्दुरिति ख्यातात्पर्वतात्पत्तनाद्भुवि
सर्वसङ्गान्परित्यज्य मम लोकं स गच्छति
पर्वतात्पतिता भूमौ धारा मुसलसन्निभा
अग्निष्टोमसहस्राणां फलं प्राप्नोति मानवः।. न मुह्यति स कर्त्तव्ये फलं प्राप्नोति चोत्तमम्
जायते विपुले शुद्धे मम मार्गानुसारिणि 140.
पश्यते परमां मूर्त्तिमेतां मम न संशयः
एतत्कश्चिन्न जानाति धरे वाराहसंश्रितम्
क्रौंचद्वीपे प्रजायेत मम भक्तिपरायणः
सर्वसङ्गान्परित्यज्य मम लोके स गच्छति
यत्र दंष्ट्राप्रहारेण चाहृतासि वसुन्धरे
सर्वपापविशुद्धात्मा मम लोकं स गच्छति
यत्र पञ्चशिलाभूभिर्विष्णुनाम्ना तथाङ्किता
गोमेदे जायते द्वीपे मम मार्गानुसारकः
सर्वपापविनिर्मुक्तः शुद्धात्मा मां स पश्यति
चतुर्धाराः पतन्त्यत्र पर्वतादुच्छ्रयं श्रिताः 140.
कुशद्वीपं समासाद्य मम लोकेषु तिष्ठति
देवाश्च यं न जानन्ति किम्पुनर्मनुजादयः
जायते पुष्करद्वीपे मम कर्मपरायणः
सर्वपापविनिर्मुक्तो मम लोकं स गच्छति
पंच धाराः पतन्त्यत्र गिरिकुञ्जसमाश्रिताः
कुशद्वीपे च जायेत मम कर्मपरायणः
कुशद्वीपात्परिभ्रष्टो ब्रह्मलोकं स गच्छति
तत्र स्नानं प्रकुर्वीत पञ्चरात्रोषितो नरः
वसते सूर्यलोकेषु मम मार्गानुसारकः
सूर्यलोकमतिक्रम्य मम लोकं तु गच्छति 140.
एका धारा पतत्यत्र देवि पूर्णा शिलोच्चयात्
सप्तरात्रोषितो भूत्वा मम कर्म समाश्रितः
सप्तद्वीपेषु विहरेन्मम कर्मपरायणः
सप्तद्वीपमतिक्रम्य मम लोकं तु गच्छति