स कृत्वा पुष्कलं कर्म मम लोकं स गच्छति
मम भक्तसुखार्थाय सर्वसंसारमोक्षणम्
स तु तारयते जन्तुर्दश पूर्वान्दशापरान्
पठेद्भागवतानां च मध्ये मुक्तिरतात्मनाम्
यदीच्छेत्सिद्धिकल्याणं मंगलं च मम प्रियम् 139.
मा पठेच्छास्त्रदूषाय अध्यायं वा कदाचन
इति श्रीवराहपुराणे भगवच्छास्त्रे सौकरे चाण्डालब्रह्मराक्षससंवादे सौकरमाहात्म्यं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः
अथ कोकामुख(बदरी) माहात्म्यम् श्रुतानि देवस्थानानि त्वया प्रोक्तानि यान्युत
किंच ते परमं स्थानं यत्र मूर्त्त्याकृतिर्भवान्
श्रीवराह उवाच येषु स्थानेषु तिष्ठामि कथ्यमानानिमाञ्छृणु
तव कोकामुखं नाम यन्मया पूर्वभाषितम्
स्थानं लोहार्गलं नाम म्लेच्छराजसमाश्रितम्
सचैत्यं पश्य मे स्थानं जगदेतच्चराचरम्
ये तु जानन्ति मां देवि गुह्यां कामगतिं मम
ततो देववचः श्रुत्वा पृथिवी वाक्यमब्रवीत्
धरण्युवाच कथं कोकामुखं श्रेष्ठं तद्भवान्वक्तुमर्हसि
श्रीवराह उवाच नास्ति कोकामुखात्स्थानं नास्ति कोकामुखात्प्रियम्।।140.
यस्तु कोकामुखं गत्वा भूयो विनिवर्त्तते
यानि यानि च क्षेत्राणि त्वया पृष्टानि वै धरे।. कोकामुखसमं स्थानं न भूतं न भविष्यति
मम सा परमा मूर्त्तिर्यां न जानन्ति गोपिताम्
श्रीवराह उवाच तस्मिन् कोकामुखं रम्यं कथ्यमानं मयाऽनघे
जलबिन्दुरिति ख्यातात्पर्वतात्पत्तनाद्भुवि
सर्वसङ्गान्परित्यज्य मम लोकं स गच्छति
पर्वतात्पतिता भूमौ धारा मुसलसन्निभा
अग्निष्टोमसहस्राणां फलं प्राप्नोति मानवः।. न मुह्यति स कर्त्तव्ये फलं प्राप्नोति चोत्तमम्
जायते विपुले शुद्धे मम मार्गानुसारिणि 140.
पश्यते परमां मूर्त्तिमेतां मम न संशयः
एतत्कश्चिन्न जानाति धरे वाराहसंश्रितम्
क्रौंचद्वीपे प्रजायेत मम भक्तिपरायणः
सर्वसङ्गान्परित्यज्य मम लोके स गच्छति