कृतस्य तस्य दोषेण योनिं प्राप्तोऽस्मि राक्षसीम्
बाढमित्येव तद्वाक्यं राक्षसं प्राब्रवीत्तदा
ददामि राक्षस त्वं चेन्मुच्यसे शुद्धमानसः
स तारयति दुर्गाणीत्युक्त्वा तद्दत्तवान् फलम्
जातः सुविमलो भद्रे शरदीव यथा शशी 139.
कृत्वा सुविपुलं कर्म स ब्रह्मत्वमुपागतः
मह्यं जागरतो भद्रे गीयमानं मनस्विनि
सर्वसंगं परित्यज्य मम लोकं स गच्छति
सर्वसंगात्प्रमुक्तो वै मम लोकं स गच्छति
यस्य गीतस्य शब्देन तरेत्संसारसागरम्
प्राप्तवान्मानुषो येन देवेभ्यः सबलां स्वयम्
नववर्षसहस्राणि नववर्षशतानि च
कुबेरभवनाद्भ्रष्टः स्वच्छन्दगमनालयः
नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे।. मानवो येन गच्छेत्तु च्छित्त्वा संसारबन्धनम्
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च 139.
फलं प्राप्नोति सुश्रोणि मम कर्मपरायणः
मद्भक्तश्चैव जायेत संसारपरिमोचितः
जम्बूद्वीपं समासाद्य राजराजस्तु जायते
मद्भक्तश्चैव जायेत मम कर्मपरायणः
यो मामुपनयेद्भूमे मम कर्मपथे स्थितः
स कृत्वा पुष्कलं कर्म मम लोकं स गच्छति
मम भक्तसुखार्थाय सर्वसंसारमोक्षणम्
स तु तारयते जन्तुर्दश पूर्वान्दशापरान्
पठेद्भागवतानां च मध्ये मुक्तिरतात्मनाम्
यदीच्छेत्सिद्धिकल्याणं मंगलं च मम प्रियम् 139.
मा पठेच्छास्त्रदूषाय अध्यायं वा कदाचन
इति श्रीवराहपुराणे भगवच्छास्त्रे सौकरे चाण्डालब्रह्मराक्षससंवादे सौकरमाहात्म्यं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः
अथ कोकामुख(बदरी) माहात्म्यम् श्रुतानि देवस्थानानि त्वया प्रोक्तानि यान्युत
किंच ते परमं स्थानं यत्र मूर्त्त्याकृतिर्भवान्
श्रीवराह उवाच येषु स्थानेषु तिष्ठामि कथ्यमानानिमाञ्छृणु