ततः स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह
मा गच्छ तत्र चाण्डाल यत्रासौ पापराक्षसः
ततस्तस्य वचः श्रुत्वा श्वपाकः संशितव्रतः
नाहमेवं करिष्यामि यन्मां त्वं परिभाषसे
सत्यमूलं जगत्सर्वं कुलं सत्ये प्रतिष्ठितम्
न चैवाहं तदुत्सृज्य असत्यः स्यां कदाचन
एवमुक्त्वा श्वपाकोपि नित्यं सत्यव्रते स्थितः 139.
आगतोऽस्मि महाभाग मा विलम्बय भक्षय
एतानि मम गात्राणि भक्षयस्व यथेष्टतः
तर्पयस्व स्वमात्मानं कुरुष्व मम वै हितम्
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्
चण्डालस्याविधिज्ञस्य यस्य ते मतिरीदृशी
उवाच मधुरं वाक्यं ब्रह्मराक्षसमेव तु
तथापि सत्यं वक्तव्यं ब्रह्मराक्षस नित्यशः
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्
फलं गीतस्य मे देहि यदीच्छेर्जीवितं स्वकम्
ब्रह्मरक्षोवचः श्रुत्वा श्वपाकः प्रत्युवाच ह 139.
भक्षयामीति चोक्त्वा मां गीतपुण्यं किमिच्छसि
देहि मे त्वेकयामीयं पुण्यं गीतस्य वै परम्
श्रुत्वा राक्षसवाक्यानि चाण्डालो गीतलोभितः
न गायनफलं दद्मि ब्रह्मरक्षस्तवेप्सितम्
श्वपाकवचनं श्रुत्वा राक्षसः पुनरब्रवीत्
एतेन तारितोऽस्मीति तव गीतफलेन वै
उवाच मधुरं वाक्यं चाण्डालो विस्मयान्वितः
कर्मणो यस्य दोषेण राक्षसत्वं समागतः
सूत्रमन्त्रपरिभ्रष्टो यज्ञकर्मसु निष्ठितः 139.
प्रवर्तमाने यज्ञे तु कदाचिद्दैवयोगतः
अथ पञ्चमहारात्रे ह्यसमाप्ते क्रतौ तथा
राक्षसत्वमनुप्राप्तस्तेन दुष्टेन कर्मणा
सूत्रहीनं तथा तत्र प्राग्वंशादि कृतं मया