उद्यंस्तत्र गत्वाहमुपास्य विधिना हरिम्
विष्णोः सन्तोषणार्थाय यतो मे व्रतमास्थितम्
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि
यद्यप्यहं हि चाण्डालः पूर्वकर्मविदूषितः
शृणु मत्समयं रक्षो येनाहं पुनरागमम्
सत्येन पुनरेष्यामि मन्यसे यदि मुंच माम् 139.
सत्येन सिद्धिं प्राप्ता हि ऋषयो ब्रह्मवादिनः
सत्यं जयन्ति राजानस्त्रीण्येतान्यब्रुवन्नृतम्
सत्येन तपते सूर्यः सोमः सत्येन रज्यते
अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः
तां गतिं सम्प्रपद्येऽहं यद्यहं नागमे पुनः
तां गतिं सम्प्रपद्येऽहं यद्यं नागमे पुनः
तेषां गतिं प्रपद्येऽहं यद्यहं नागमे पुनः
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते
पुनर्गायति मह्यं वै मम भक्तौ व्यवस्थितः
नमो नारायणायेति श्वपाकः परिवर्त्तते 139.
उवाच मधुरं वाक्यं चाण्डालं कृतनिश्चयम्
जानन्कौणपपं तं च न त्वं मर्त्तुमिहार्हसि
समयो मे कृतः पूर्वं राक्षसेन हि भक्षता
ततः स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह
मा गच्छ तत्र चाण्डाल यत्रासौ पापराक्षसः
ततस्तस्य वचः श्रुत्वा श्वपाकः संशितव्रतः
नाहमेवं करिष्यामि यन्मां त्वं परिभाषसे
सत्यमूलं जगत्सर्वं कुलं सत्ये प्रतिष्ठितम्
न चैवाहं तदुत्सृज्य असत्यः स्यां कदाचन
एवमुक्त्वा श्वपाकोपि नित्यं सत्यव्रते स्थितः 139.
आगतोऽस्मि महाभाग मा विलम्बय भक्षय
एतानि मम गात्राणि भक्षयस्व यथेष्टतः
तर्पयस्व स्वमात्मानं कुरुष्व मम वै हितम्