नानाविधानि तूर्याणि तत्रावाद्यन्त सर्वशः । मज्जने नृपतेस्तत्र ननृतुश्चान्ययोषितः । अपराश्च जगुस्तत्र शक्रस्येव प्रमज्जतः ।। ११.
एवं दिव्योपचारेण स्नात्वा राजा महामनाः । चिन्तयामास राजेन्द्रो विस्मयाविष्टचेतनः । किमिदं मुनिसामर्थ्यं तपसो वाऽथ वा मणेः ।। ११.
एवं स्नात्वा शुभे वस्त्रे परिधायोत्तमे तथा । विविधान्नं तु विधिना बुभुजे स नृपोत्तमः ।। ११.
/50 यथा च नृपतेः पूजा कृता तेन महर्षिणा । तद्वद् भृत्यजनस्यापि चकार मुनिसत्तमः ।। ११.
यावत् स राजा बुभुजे सभृत्यबलवाहनः । तावदस्तगिरिं भानुर्जगामारुणसप्रभः ।। ११.
ततस्तु रात्रिः समपद्यताऽधुना शरच्छशाङ्कोज्ज्वलऋक्षमण्डिता । करोति रागं स च रोहिणीधवः सुसङ्गतं सौम्यगुणेषु तापि च ।। ११.
भृगूद्वहः कृष्णतरांशुभानुना सहोद्यतो दैत्यगुरुः सुराधिपः । अथान्तरात्पक्षगतो न राजते स्वभावयोगेन मतिस्तु देहिनाम् ।। ११.
सुरक्ततां भूमिसुतश्च मुञ्चते राहुः सिती चन्द्रमसोंशुभिः सितैः । मुक्तः स्वभावो जगतः सुरासुरै- रनुस्वभावो बलवान् सुकृन्नृपः ।। ११.
सितेश्वराख्यापितरश्मिमण्डले सूर्यत्वसिद्धान्तकषेव निर्मले । करोति केतुर्न परे महत्तम- स्तदा कुशीलेषु गतिश्च निर्मला ।। ११.
बुधोच्चबुद्धिर्जगतो विभावयन् रराज राज्ञो तनयः स्वकर्मभिः । भृतेच्छकः कक्षविवाहितश्चिरं भवेदियं साधुषु सम्मितिर्ध्रुवम् ।। ११.
करोति केतुः कपिलं वियच्चिरं राज्ञः सुराणां पथि संस्थितं भृशम् । न दुर्जनः सज्जनसंसदि क्वचित् करोति शुद्धं निजकर्मकौशलम् ।। ११.
शशाङ्करश्मिप्रविभासिता अपि प्रकाशमीयुर्निरताः पदे पदे । कुलंभवाः संभवधर्मपत्तयो महांशुयोगान्महतां समुन्नतिम् ।। ११.
त्रिदोषसक्तान्निकृतोऽस्य सर्वशः सुतेन राज्ञो वरुणस्य सूर्यजः । विराजते कौशिकसन्निवेशिता न वेदकर्म क्वचिदन्यथा भवेत् ।। ११.
द्वन्द्वः समेतान् मम यः शिशुः पुरा हरिर्य आराधितवान् नृपासनम् । लक्ष्म्यापि बुद्ध्या सुचिरं प्रकाशते ध्रुवेण विष्णुस्मरणेन दुर्लभम् ।। ११.
इतीदृशी रात्रिरभूदृषेः शुभे वराश्रमे दुर्जयभूपतेः शुभा । सभृत्यसामन्तवराश्वदन्तिनः सुभक्तवस्त्राभरणादिपूजया ।। ११.
इतीदृशायां वररत्नचित्रिताः सुपट्टसंवीतवरास्तृतास्तदा । गृहेषु पर्यङ्कवराः समाश्रिताः सुरूपयोषित्कृतभङ्गभासुराः ।। ११.
स तत्र राजा विससर्ज भूभृतः स्वयं सभृत्यानपि सर्वतो गृहान् । गतेषु सुष्वाप वरस्त्रिया वृतः सुरेशवत्स्वर्गगतः प्रतापवान् ।। ११.
एवं सुमनसस्तस्य सभृत्यस्य महात्मनः । ऋषेस्तस्य प्रभावेन हृष्टास्तु सुषुपुस्तदा ।। ११.
ततो रात्र्यां व्यतीतायां स राजा ताः स्त्रियः पुनः । अन्तर्द्धानं गतास्तत्र दृष्ट्वा तानि गृहाणि च ।। ११.
अदृश्यानि महार्हाणि वरासनजलानि च । राजा स विस्मयाविष्टश्चिन्तयामास दुःखितः ।। ११.
कथमेवं मणिर्मह्यं भवतीति पुनः पुनः । चिन्तयन्नधिगम्याथ स राजा दुर्जयस्तदा ।। ११.
चिन्तामणिमिमं चास्य हरामीति विचिन्त्य सः । प्रयाणं नोदयामास स राजाश्रमबाह्यतः । आश्रमस्य बहिर्गत्वा नातिदूरे सवाहनः ।। ११.
ततो विरोचनाख्यं वै प्रेषयामास मन्त्रिणम् । ऋषेर्गौरमुखस्यापि मणेर्याचनकर्मणि ।। ११.
ऋषिं तं च समागत्य मणिं याचितुमुद्यतः । रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् ।। ११.
अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् । प्रतिगृह्णाति विप्रस्तु राजा चैव ददाति च । त्वं च राजा पुनर्भूत्वा याचसे दीनवत् कथम् ।। ११.
एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् । गच्छ द्रुतं दुराचार मा त्वां लोकोऽत्यगादिति ।। ११.
(एवमुक्त्वा मुनिः प्रागात् कुशेध्माहरणाय वै । चिन्तयन् मनसा तं च मणिं शत्रुविनाशनम् ) ।। ११.
एवमुक्तस्तदा दूतो जगाम च नृपान्तिकम् । कथयामास तत्सर्वं यदुक्तं ब्राह्मणेन च ।। ११.
ततः क्रोधपरीतात्मा श्रुत्वा ब्राह्मणभाषितम् । दुर्जयः प्राह नीलाख्यं सामन्तं गच्छ माचिरम् । ब्राह्मणस्य मणिं गृह्य तूर्णमेहि यदृच्छया ।। ११.
एवमुक्तस्तदा नीलो बहुसेनापरिच्छदः । जगाम स च विप्रस्य वन्यमाश्रममण्डलम् ।। ११.