गायनं ये प्रकुर्वन्ति मम कर्मपरायणाः
गीयमानस्य गीतस्य यावदक्षरपङ्क्तयः
रूपवान्गुणवान् सिद्धः सर्ववेदविदां वरः
मद्भक्तश्चैव जायेत इन्द्रलोकपथे स्थितः
इन्द्रलोकात्परिभ्रष्टो मम गीतपरायणः
ततः स भूमौ जायेत वैष्णवैः सह संस्थितः
मत्प्रसादात्स शुद्धात्मा मम लोकं हि गच्छति
सूत उवाच कृताञ्जलिपुटा भूयः प्रत्युवाच वसुन्धरा ।। 139.
धरण्युवाच के च गीतप्रभावेण सिद्धिं प्राप्ता महौजसः
वराह उवाच दूराज्जागरणे याति मम भक्तौ व्यवस्थितः
गायमानश्च गीतानि संवत्सरगणान्बहून्
कौमुदस्य तु मासस्य शुक्लपक्षे तु द्वादशी
जाग्रंस्तत्र स चाण्डालो गृहीतो ब्रह्मरक्षसा
दुःखशोकेन सन्तप्तो न शक्नोति विचेष्टितुम्
किं त्वया चेष्टितं मह्यं यस्त्वेवं परिधावसि
ततः प्रोवाच तं श्वादं मानुषाहारलोलुपः
विधात्रा विहितस्त्वं व आहारः पारणाविधौ
तृप्तिं यास्यामि परमां विधात्रा विहितां मम 139.
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः
अवश्यमेतत्कर्तव्यं धात्रा दत्तं यथा तव
उद्यंस्तत्र गत्वाहमुपास्य विधिना हरिम्
विष्णोः सन्तोषणार्थाय यतो मे व्रतमास्थितम्
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि
यद्यप्यहं हि चाण्डालः पूर्वकर्मविदूषितः
शृणु मत्समयं रक्षो येनाहं पुनरागमम्
सत्येन पुनरेष्यामि मन्यसे यदि मुंच माम् 139.
सत्येन सिद्धिं प्राप्ता हि ऋषयो ब्रह्मवादिनः
सत्यं जयन्ति राजानस्त्रीण्येतान्यब्रुवन्नृतम्
सत्येन तपते सूर्यः सोमः सत्येन रज्यते